________________
१३८]
[ उत्तराध्ययनसूत्रे-भाग-२ नश्चौरादयः पुरुषास्तेषामप्रार्थनीयस्तैरवाञ्छनीयः, चौरादयो हि निष्परिग्रहं किं कुर्वन्ति ? परिग्रहवतां चौरेभ्यो भीतिः स्यात् ॥ ४७ ॥
लोभे सति माया स्यात्, लोभाऽभावे मायाऽभावः, मायाया अभाचे आर्जवं-सरलत्वं स्यात्, अतस्तत्फलं प्रश्नपूर्वकमाह
अज्जवयाए णं भंते जीवे किं जणयइ ? अज्जवयाए णं काउज्जुययं भावुज्जुययं भासुज्जुययं अविसंवादणं जणयइ, अविसंवादणसंपन्नेणं जीवे धम्मस्स आराहए भवइ ॥४८॥
हे भदन्त ! आर्जवेण-मायापरिहारेण जीवः किं फलं जनयति ? ऋजोर्भाव आर्जवं, तेन किं फलमुत्पादयति ? तदा गुरुराह-हे शिष्य ! आर्जवेन कायर्जुकता, भावर्जुकतां, भाषर्जुकतां, अविसंवादनां जनयति । ऋजुरेव ऋजुकः, कायेन ऋजुकः कायर्जुकः, तस्य भावः कायर्जुकता, वक्रशरीरभ्रूविकारादिरहितत्वेन सरलतामुत्पादयति । एवं भावश्चित्ताभिप्रायस्तस्य ऋजुकता भावर्जुकता, तां भावणुकतां चित्तसरलतामुत्पादयति । पुन
र्भाषाया-वचनस्य ऋजुकता भाषर्जुकता, तां भाषर्जुकतां वचनसरलत्वमुत्पादयति । पुनरविसंवादनं परजीवानामवञ्चनत्वं जनयति । स प्राप्ताऽविसंवादः कायेन वाचा मनसा सम्प्राप्ताऽविसंवादः परवञ्चकतारहितो जीवो धर्मस्य वीतरागधर्मस्याराधको भवति ॥४८॥
एवमार्जवगुणयुक्तेन मार्दवं विधेयम्, अतो मार्दवफलं प्रश्नपूर्वकमाह-मार्दवं हि मानत्यागरूपं, तत्तु विनयस्य कारणं, धर्मे हि विनयस्य प्राधान्यम्
मद्दवयाए णं भंते जीवे किं जणयइ ? मद्दवयाए णं जीवे अणुस्सियत्तं जणयइ, अणुस्सियत्तेणं जीवे मिउमद्दवसंपन्ने अट्ठमयठाणाइ निठुवेइ ॥४९॥
हे स्वामिन् ! मार्दवेन-कोमलपरिणामेन जीवः कि जनयति ? गुरुराह-हे शिष्य ! मार्दवेन-मानपरिहारेण जीवोऽनुत्सृतत्वमनहङ्कारित्वमहङ्काराऽभावं जनयति अनुत्सृतत्वेनाहङ्काराभावेन जीवो मृदुः कोमलः सकलभव्यजनमनःसन्तोषहेतुत्वाद् द्रव्यतो भावतश्च सरलोऽवनमनशीलः, मृदो वो मार्दवं, मृदुगुणमार्दवगुणयोरयं भेदः, अवसरेऽवनमनं मृदुगुणः, यत्सर्वदा कोमलत्वभवनं तन्मार्दवं, यद्वा कायेन मानत्यागो मृदुगुणः, मनसा मानपरिहारो मार्दवम् ताभ्यां सम्पन्नो भवति संयुक्तो भवति । तादृशः सन्नष्टौ मदस्थानानि निष्ठापयति क्षपयति ॥ ४९ ॥
एतत्प्रायः सत्यसंस्थितस्य साधोर्भवति, सत्येषु भावसत्यमेव प्रधानम्, अतस्तत्फलं प्रश्नपूर्वकमाह
भावसच्चेणं भंते जीवे किं जणयइ ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए वट्टमाणे जीवे अरहंतपन्नत्तस्स धम्मस्स आराहणयाए