________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[ १३७
णं अपुणरावतिं जणयइ, अपुणरावत्तिपत्तए य णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥ ४४ ॥
हे भदन्त ! स्वामिन् ! सर्वगुणसम्पन्नतया जीवः किं जनयति ? सर्वे च ते गुणाश्च सर्वगुणाः, ज्ञानदर्शनचारित्रादयस्तैः सम्पन्नता सहितत्वं सर्वगुणसम्पन्नता, तया सर्वगुणसम्पन्नतया किं फलमुत्पादयति ? गुरुराह - हे शिष्य ! सर्वगुणसम्पन्नतया जीवोऽपुनरावृत्ति जनयति, मुक्तिमुपार्जयति, अपुनरावृत्ति प्राप्तो जीवः प्राप्ताऽपुनरावृत्तिः प्राप्तमोक्षो जीवः शारीरमानसानां दुःखानां विभागी नो भवति ॥ ४४ ॥
सर्वगुणसम्पन्नतया वीतरागो भवति, अतस्तत्फलं प्रश्नपूर्वकमाह
वीयरागयाए णं भंते जीवे किं जणयइ ? वीयरागयाए णं नेहाणुबंधाण तहाणुबंधणाणि य वोछिंदइ, मणुन्नेसु सद्दफरिसरसरूवगंधेसु विरज्जइ ॥ ४५ ॥
हे भगवन् ! वीतरागतया जीवः किं जनयति ? वीतो गतो रागो यस्मात्स वीतरागस्तस्य भावो वीतरागता, तया वीतरागतया रागद्वेषाऽभावेन किं फलं जनयति ? गुरुराह - हे शिष्य ! वीतरागतया स्नेहानुबन्धनानि, स्नेहस्याऽनुकूलानि बन्धनानि, पुत्रमित्रकलत्रादिषु प्रेमपाशान्, तथा तृष्णानुबन्धनानि, द्रव्यदिष्वाशापाशान् व्यवच्छिनत्ति विशेषेण त्रोटयति । पुनर्मनोज्ञेषु मनोहरेषु शब्दस्पर्शरसरूपगन्धेभ्यो विरज्यते । विषयेभ्यो विरक्तो भवतीति भावः ॥ ४५ ॥
वीतरागतायुक्तस्तु श्रामण्यसंयुक्तो भवति, श्रामण्यधर्मे च क्षान्तिरेवाद्या, अतस्तत्फलं प्रश्नपूर्वकमाह
खंतिए णं भंते जीवे किं जणयइ ? खंतिए णं परीसहे जयइ ॥ ४६ ॥
हे भगवन् ! क्षान्त्या -क्षमया कृत्वा जीवः किं फलं जनयति ? तदा गुरुराह - हे शिष्य ! क्षमया परीषहान् जयति ॥ ४६ ॥
अथ पुनः क्षमावान् मुक्तियुक्तो भवति, निर्लोभी भवति, अतस्तत्फलं प्रश्नपूर्वकमाहमुत्तीए णं भंते जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचdi जीवे अत्थलोभाणं अप्पत्थणिज्जे भवइ ॥ ४७ ॥
हे भगवन् ! मुक्त्या निर्लोभत्वेन जीवः किं जनयति ? गुरुराह - हे शिष्य ! मुक्त्या - किञ्चनत्वं निष्परिग्रहत्वमुत्पादयति, अकिञ्चनत्वेन जीवोऽर्थलोभानामप्रार्थनीयो भवति, aise ? isकिञ्चन - निष्परिग्रहो भवति, स पुरुषोऽर्थे लोभो येषां तेऽर्थलोभा द्रव्यार्थि
-