________________
१३६ ]
[ उत्तराध्ययनसूत्रे-भाग-२ एतत्प्रत्याख्यानं प्रायश: प्रतिरूपतायामेव स्यात्, अतः प्रतिरूपतायाः फलमाहपडिरूवयाए णं भंते जीवे किं जणयइ ? पडिरूवयाए णं लाघवं जणयइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसमत्ते सत्तसमितिसम्मत्ते सव्वपाणभूयजीवसत्तेसु विससणिज्जरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि विहरइ ॥ ४२ ॥
हे भगवन् ! प्रतिरूपतया जीवः किं फलं जनयति ? प्रतिरूपतायाः कोऽर्थः ? प्रतीति स्थविरकल्पिसदृशं रूपं यस्य स प्रतिरूपः, तस्य भावः प्रतिरूपता तया, स्थविरकल्पसाधुवेषधारित्वेन जीवः किं जनयति ? ।
गुरुराह - हे शिष्य ! प्रतिरूपतया जीवो लघुत्वं जनयति, अधिकोपधित्यागेन लघुत्वमुपार्जयतीत्यर्थः । द्रव्यत उपध्यादिपरिग्रहपरित्यागेन, भावतस्त्वप्रतिबद्धविहारत्वेन घुर्भवति । लघुभूतश्च जीवोऽप्रमत्तो भवति, तादृश: प्रकटलिङ्गः, प्रकटं स्थविरकल्पादिवेषेण स्फुटं लिङ्गं - चिह्नं यस्य स प्रकटलिङ्गः । पुनः प्रशस्तलिङ्गः, प्रशस्तं समीचीनं रजोहरणमुखपोतिकादिकं यस्य स प्रशस्तलिङ्गः, पुनर्विशुद्धसम्यक्त्वो-निर्मलसम्यक्त्वः, पुनः सत्त्वसमितिसमाप्तः, सत्त्वं च समितयश्च सत्वसमितयस्ताभिः समाप्तः - सम्पूर्णो धैर्यसमितियुक्त इत्यर्थः ।
ततः पुनः सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयो-विश्वासयोग्यो भवति । पुनस्तादृशोऽल्पप्रतिलेखः, प्रतिलेखनं प्रतिलेखः, अल्पः प्रतिलेखो यस्य सोऽल्पप्रतिलेखः, अल्पोपकरणत्वादल्पप्रतिलेखनावान् भवतीत्यर्थः । पुनः स जितेन्द्रियो भवति । पुनर्विपुलतपःसमितिसमन्वागतश्चापि विहरति, विपुलानि विस्तीर्णानि तपांसि समितयश्च विपुलतपः समितयस्ताभिरन्वागतिः - सहितः सन् विहरति । द्वादशविधेन तपसा समितिगुप्तिसहितो भूत्वा ग्रामनगरादौ विचरति ॥ ४२ ॥
प्रतिरूपतायामपि वैयावृत्त्यं कर्तव्यं, अतस्तत्फलमाह
वेयावच्चेणं भंते जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगोयं कम्मं निबंधेइ ॥ ४३ ॥
हे भगवन् ! वैयावृत्त्येनाऽऽहारादिसाहाय्येन जीवः किं जनयति ? तदा गुरुराह - हे शिष्य ! वैयावृत्त्येन तीर्थकरनामगोत्रं कर्म निबध्नाति । वैयावृत्यं कुर्वंस्तीर्थकरनामगोत्रं कर्म बनातीत्यर्थः ॥ ४३ ॥
अथ वैयावृत्त्यवान् सर्वगुणभाक् स्यात्, अतः सर्वगुणसम्पन्नतायाः फलं प्रश्नपूर्वमाहसव्वगुणसंपन्नयाए णं भंते जीवे किं जणयइ ? सव्वगुणसंपन्नयाए