________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम्]
[१३५ झञ्झोऽविद्यमानवाक्कलहो भवति, पुनरल्पकषायो भवति, पुनरल्पकलहोऽविद्यमानरोषसूचकवचनो भवति, तथाऽल्पतुमंतुमो भवति, अविद्यमानं तुमंतुममिति-त्वं त्वमिति वाक्यं यस्य सोऽल्पतुमंतुमः, त्वमेवैतत्कार्यं कृतवान्, त्वमेक एव सदाऽकृत्यकारी वर्तसे । इत्यादिप्रलपनं न करोति ।
पुनः साहाय्यप्रत्याख्यानेन संयमबहुलो भवति । संयमः सप्तदशविधः, स बहुल:प्रचुरो यस्य स संयमबहुलः । स च पुनः संवरबहुलो भवति । संवर आश्रवद्वारनिरोधः, स बहुलः प्रचुरो यस्य स संवरबहुलस्तादृशो भवति । स च पुनः समाधिबहुलो भवति । समाधिश्चित्तस्वास्थ्यम्, तेन बहुलः समाधिबहुलः समाधिप्रधानो भवति । पुनः समाहितश्चापि भवति, ज्ञानदर्शनवांश्च भवतीत्यर्थः ॥ ३९ ॥
एवंविधः साधुरन्ते भक्तप्रत्याख्यानवान् स्यात्, अतस्तत्फलं प्रश्नपूर्वमाह
भत्तपच्चक्खाणेणं भंते जीवे किं जणयइ ? भत्तपच्चक्खाणेणं जीवे अणेगाइं भवसहस्साई निरंभइ ॥ ४० ॥
हे भदन्त ! भक्तप्रत्याख्यानेनाऽऽहारत्यागेन भक्तपरिज्ञानादिना जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! भक्तप्रत्याख्यानेन जीवोऽनेकानि भवसहस्राणि निरुणद्धि ॥४०॥
अथ सर्वप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानम्, अतस्तस्य फलं प्रश्नपूर्वकमाह
सब्भावपच्चक्खाणेणं भंते जीवे किं जणयइ ? सब्भावपच्चक्खाणेण अणियट्टि जणयइ, अणियट्टि पडिवन्ने य अणगारे चत्तारि केवलिकम्मंसे खवेइ, तं जहा-वेयणिज्जं १, आउयं २, नामं ३, गोयं ४, तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ ॥४१॥
हे भगवन् ! सद्भावेन प्रत्याख्यानं सद्भावप्रत्याख्यानं, तेन सद्भावप्रत्याख्यानेन, सर्वथा पुनः करणस्याऽसम्भवादीदृशेन विधिना प्रत्याख्यानं करोति, यथा पुनः करणीयं न स्यात्, इत्यनेन सर्वप्रकारेण शैलेशीकरणं, चतुर्दशगुणस्थाने वर्त्तनेन जीवः किं जनयति ? गुरुराहहे शिष्य ! सद्भावप्रत्याख्यानेनाऽनिवृत्तिं जनयति, शुक्लध्यानस्थ चतुर्थं भेदं जनयति । अनिवृत्तिं प्रतिपन्नः, प्रतिपन्नानिवृत्तिरनगारश्चत्वारि केवलिनः कर्मांशानि सन्ति कर्माणि भवोपग्राहीणि क्षपयति । अंशशब्दः सत्पर्यायः, विद्यमानकर्माणि क्षपयति । तानि कानि चत्वारि कर्माणि ? तद्यथा-वेदनीयं कर्म १, आयुःकर्म २, नामकर्म ३, गोत्रकर्म ४, एतेषां चतुर्णामपि कर्मणां क्षयं कृत्वा, ततः पश्चात्सिद्ध्यति, सकलार्थं साधयति ।सकलार्थं साधयित्वा सिद्धो भवति, ततो बुद्धयति तत्त्वज्ञो भवति, मुच्यते कर्मभ्यो मुक्तो भवति, परिनिर्वाति परि समन्तात् कर्मतापाऽभावाच्छीतलो भवति, सर्वदुःखानामन्तं करोति ॥४१॥