________________
[ उत्तराध्ययनसूत्रे-भाग-२
निष्कषायोऽपि योगप्रत्याख्यानवान् भवति, अतस्तत्फलं प्रश्नपूर्वकमाहजोगपच्चक्खाणं भंते जीवे किं जणयइ ? जोगपच्चक्खाणेणं अजोगित्तं जणयइ, अजोगी णं जीवे नवं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥ ३७ ॥
१३४]
हे भगवन् ! योगप्रत्याख्यानेन, योगो मनोवाक्कायानां व्यापारस्तस्य प्रत्याख्यानं योगप्रत्याख्यानं, तेन जीवः किं जनयति ? तदा गुरुराह - हे शिष्य ! योगप्रत्याख्यानेनाऽयोगित्वं जनयति, शैलेशीभावं भजति । अयोगी हि जीवश्चतुर्दशगुणस्थाने प्रवर्तमानो नवं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति क्षपयतीति भावः ॥ ३७ ॥
योगप्रत्याख्यानतः शरीरप्रत्याख्यानं करोति, अतस्तत्फलं प्रश्नपूर्वकमाहसरीरपच्चक्खाणेणं भंते जीवे किं जणयइ ? सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गमुवगए परमसुही होई ॥ ३८ ॥
हे भगवन् ! शरीरप्रत्याख्यानेन शरीरव्युत्सर्जनेन जीवः किं लाभं जनयति ? गुरुराहशरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वं निर्वर्तयति, कोऽर्थः ? सिद्धानां येऽतिशयगुणाः सर्वोत्कृष्टगुणास्तेषां भावः सिद्धातिशयगुणत्वं यतो हि सिद्धा न नीलाः, न लोहिताः, न हरिद्राः, न शुक्ला इत्याद्येकत्रिंशद् गुणाः, तद्वत्त्वं प्राप्नोतीत्यर्थः । प्राप्तसिद्धातिशयगुणो वो लोकाग्रं मोक्षमुपगतः सन् परमसुखी भवति । यद्यपि योगप्रत्याख्यानेन शरीरप्रत्याखानः समागत:, तथापि मनोवाग्योगयोः शरीरस्य प्राधान्यख्यापनार्थं पृथगुपादानम् ॥३८॥ सम्भोगादिप्रत्याख्यानानि प्राय: साहाय्यप्रत्याख्यानयुक्तस्य भवन्ति, अतस्तत्फलं
प्रश्नपूर्वमाह
साहायपच्चक्खाणेणं भंते जीवे किं जणयइ ? साहायपच्चक्खाणेणं जीवे एगीभावं जणयइ, एगी भावभूए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमतुमे संयमबहुले संवरबहुले समाहिए आवि भवइ ॥ ३९ ॥
सहायाः - साहाय्यकारिणः, सङ्घाटकस्य साधवः, तेषां प्रत्याख्यानं साहाय्यप्रत्याख्यानं, तेन साहाय्यप्रत्याख्यानेन हे भगवन् ! जीवः किं फलं जनयति ? गुरुराह - हे शिष्य ! साहाय्यप्रत्याख्यानेनैकीभावं जनयति । एकीभावभूतश्चैकत्वं प्राप्तो जीव एकाग्रं भावयन्नेकावलम्बनत्वं चाभ्यसन्नल्पशब्दोऽल्पजल्पको भवति, अल्पझञ्झो भवति - अविद्यमान