________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[१३३ पाश्रयमङ्गीकृत्य प्रवर्तते, यादृशी स्थानाले उक्तास्ति, तां प्रतिपद्य विहरति । अत्र ोते शब्दा एकार्थाः प्रतिपादितास्तदनेकदेशीयशिष्याणां प्रतिबोधनार्थं पर्यायत्वेन प्रतिपादिताः ॥३३॥
सम्भोगप्रत्याख्यानवतः साधोरुपधिप्रत्याख्यानं सम्भवति, अतस्तत्फलं प्रश्नपूर्वकमाह
उवहिपच्चक्खाणेण भंते जीवे किं जणयइ ? उवहिपच्चक्खाणेणं अपलिमंथं जणयइ, निरुवहिएणं जीवे निकंखे उवहिमंतरेण न संकिलिस्सइ ॥३४ ॥
हे भदन्त ! उपधिप्रत्याख्यानेन रजोहरणमुखवस्त्रिकापात्रादिव्यतिरिक्तस्योपधेः प्रत्याख्यानेनोपधित्यागेन जीवः किमुपार्जयति ? गुरुराह-हे शिष्य ! उपधिप्रत्याख्यानेनाऽपरिमन्थं जनयति । परिमन्थः स्वाध्यायव्याघातः, न परिमन्थोऽपरिमन्थः स्वाध्यायादौ निरालस्यं जनयति । पुनर्निरुपधिको-निष्परिग्रहो जीवो निष्काङ्क्षो भवति, वस्त्रादावभिलाषरहितः स्यादित्यर्थः । तादृशो ह्युपधिमन्तरेणोपधिं विना न सङ्क्लिश्यते, क्लेशं न प्राप्नोति सपरिग्रहो हि क्लेशं प्राप्नोतीति भावः ॥ ३४ ॥ ___अथोपधिप्रत्याख्यानवान् साधुर्जिनकल्पादिरेषणीयाहारस्याऽलाभेनोपवासं करोति, आहारप्रत्याख्यानं करोति, तदा तत्फलमपि प्रश्नपूर्वमाह
आहारपच्चक्खाणेणं भंते जीवे किं जणयइ ? आहारपच्चक्खाणेणं जीवियासंसप्पओगं वोछिंदइ, जीवियासंसप्पओगं वोछिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ॥ ३५ ॥
हे भदन्त ! आहारस्य प्रत्याख्यानेन सदोषाहारत्यागेनोपवासादिना जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! आहारप्रत्याख्यानेन जीवो जीविताशंसप्रयोगं व्यवच्छिनत्ति । जीविते-प्राणधारणे आशंसा-अभिलाषस्तस्याः प्रयोगो व्यापारो जीविताशंसप्रयोगस्तं व्यवच्छिनत्ति - निवारयति । जीविताशंसप्रयोगं विच्छिद्य - निवार्य जीव आहारमन्तरेण न क्लिश्यति । तस्मै यदि शुद्धाहारलाभो न स्यात्तदा जीविताशंसारहितो मुनिर्न क्लेशभाक् स्यादिति भावः ॥३५॥
एतत्प्रत्याख्यानत्रयमपि कषायाऽभावे एव फलवत् स्यात्, अतस्तत्फलं प्रश्नपूर्वकमाह
कसायपच्चक्खाणेणं भंते जीवे किं जणयइ ? कसायपच्चक्खाणेणं वीयरायभावं जणयइ, वीयरायभावं पडिवज्जे य णं जीवे समसुहदुक्खे भवइ ॥ ३६॥
हे स्वामिन् ! कषायप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! कषायप्रत्याखानेन क्रोधमानमायालोभत्यागेन जीवो वीतरागभावं जनयति । प्रतिपन्नवीतरागभावो जीवः समसुखदुःखो भवति ॥ ३६ ॥
१०