________________
१३२]
[उत्तराध्ययनसूत्रे-भाग-२ संयमे सावधानः स्यात्, तथा मोक्षं भावेन-मनसा प्रतिपन्न-आश्रितो मोक्षभावप्रतिपन्नः, मोक्ष एव मया साध्य इति बुद्धिमान्, क्षपकश्रेणि प्रतिपद्याष्टविधकर्मग्रन्थि निर्जरयतिक्षपयति ॥३१॥
विविक्तशयनासनश्च विनिवर्तनावान् स्यात्, अतो विनिवर्तनायाः फलमाह
विणिवट्टणयाए णं भंते जीवे किं जणयइ ? विणिवट्टणयाए णं पावाणं कम्माणं अकरणयाए अब्भुढेइ, पुव्वबद्धाण य निज्जरणयाए तं नियत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं वीईवयइ ॥३२॥
हे स्वामिन् ! विनिवर्तनया विषयेभ्य आत्मनः पराङ्मुखीभावेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! विनिवर्तनया पापकर्मणामकारणत्वेन - सावद्यकर्मत्यागेनाऽभ्युत्तिष्ठते, धर्माय सावधानो भवति । पूर्वबद्धानां पापकर्मणां निर्जरया, नूतनपापकर्मणामनुत्पादनेन तत्पापकर्म निवर्तयति निवारयति । ततश्च पश्चाच्चातुरन्तसंसारकान्तारं 'वीईवयई' व्यतिव्रजति, व्युत्क्रामतीत्यर्थः ॥ ३२ ॥
विषयनिवृत्तश्च कश्चित्साधुः संभोगप्रत्याख्यानवान् भवति, अतस्तत्फलमाह
संभोगपच्चक्खाणेणं भंते जीवे कि जणयह? संभोगपच्चक्खाणेणं आलंबणाइ खवेइ, निरालंबणस्स य आययट्ठिआ जोगा भवंति, सएणं लाभेणं संतुस्सइ, परलाभं नो आसाएइ, नो तक्केइ, नो पीहेइ, नो पत्थेइ, नो अहिलसइ, परस्स लाभं अणासाएमाणे अतक्केमाणे अपिहेमाणे अप्पच्छेमाणे अणभिलसेमाणे दोच्चं सुहसिज्जं उवसंपज्जित्ताणं विहरेइ ॥३३॥
हे भदन्त ! सम्भोगप्रत्याख्यानेन, एकमण्डल्यां स्थित्वाऽऽहारस्य करणं सम्भोगः, तस्य प्रत्याख्यानेनोत्कृष्टत्वेन पृथगाहारकरणेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! सम्भोगप्रत्याख्यानेनालम्बनानि क्षपयति, यतोऽहं ग्लानोऽस्मि, रोग्यस्मीत्यादिकथनानि क्षपयति, धीरो भवतीत्यर्थः । निरालम्बनस्य चायतार्था योगा भवन्ति । आयतो मोक्षः, स एवार्थः प्रयोजनं येषां ते आयतार्थाः, एतादृशा योगा भवन्ति । मनोवाक्काययोगा भवन्ति । स्वेन लाभेन सन्तुष्यति, परस्य लाभं नाऽऽस्वादयति, न वाञ्छयति । ततश्च परस्य लाभं नो तर्कयति, यदिदं मह्यं दास्यतीति मनसा न विकल्पयति । नो स्पृहयति, परलाभे श्रद्धालुतया स्वस्य स्पृहां न प्रकटीकरोति । पुनः परस्य लाभं न प्रार्थयति, मह्यं देहीति न याचते । पुनर्नाभिलषति, परस्य लाभं लालसापूर्वकं न वाञ्छति ।
अथ परस्य लाभं 'अणासायमाणा' अनास्वादयन्, अतर्कयन्, अनीहमानः, अप्रार्थयन्, अनभिलषन्, द्वितीयां सुखशय्यामुपसम्पद्य विहरति, अपरेभ्यः साधुभ्यः पृथगु