________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[ १३१
संयमादिषु सत्स्वपि सुखशातेनैव प्रवर्तनीयमतस्तत्फलमाह
सुहसाएण भंते जीवे किं जणयइ ? सुहसाएणं अणुस्सुयत्तं जणयइ, अणुस्सुयाएणं जीवे अणुकंपए अणुब्भडे विगयसोगे चरित्तमोहणिज्जं कम्मं खवे ॥ २९ ॥
भदन्त ! हे स्वामिन् ! सुखस्य वैषयिकस्य शातस्तद्गतस्पृहानिवारणेनापनयनं सुखशातस्तेन जीवः किं जनयति ? गुरुराह - हे शिष्य ! सुखसातेनाऽनुत्सुकत्वं जनयति, विषयसुखेऽनुत्तालत्वं जनयति । अनुत्सुकश्च जीवोऽनुकम्पते, अग्रेतनं जीवं दृष्ट्वानुकम्पको दयावान् भवतीत्यर्थः । पुनरनुद्भटोऽभिमानरहितः श्रृङ्गारादिशो भारहितः स्यात् । पुनस्तादृशः सन् विगतशोकः, इहलौकिककार्यभ्रंशादावपि शोचनं न कुरुते । पुनस्तादृशो मोक्षार्थी शुभाध्यवसायवर्ती कषायनोकषायरूपचारित्रमोहनीयरूपं कर्म क्षपयति ॥ २९ ॥ अथ सुखशातस्थितस्य चाप्रतिबद्धता भवति, अतस्तत्फलं प्रश्नपूर्वमाहअप्पडिबद्धयाए णं भंते जीवे किं जणयइ ? अप्पडिबद्धायए णं निस्संगत्तं जणयइ, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया वा राओ असज्जमाणे अप्पडिबद्धे आवि विहरइ ॥ ३० ॥
हे भदन्त ! अप्रतिबद्धतया मनसि निरभिष्वङ्गतया जीवः किं जनयति ? गुरुराहहे शिष्य ! अप्रतिबद्धतया निःसङ्गत्वं - बाह्यसङ्गाभावं जनयति, निःसङ्गत्वं गतो जीव एको रागादिरहितः स्यात्, तादृशश्चैकाग्रचित्तो धर्मे एव दृढमनस्कः स्यात् । पुनर्दिवा दिवसे रात्रौ वाऽसज्जन् सदा बाह्यसगं त्यजन्नप्रतिबद्धो विहरति, मासकल्पेनोद्यतविहारेण पर्यटतीति भावः ॥ ३० ॥
अप्रतिबद्धता च विविक्तशयनासनसेवकस्य स्यात्, अतस्तत्फलमाह
विवित्तसयणासणयाए णं भंते जीवे किं जणयइ ? विवित्तसयणासणयाए णं जीवे चरित्तगुत्तिं जणयइ, चरित्तगुत्ते य णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिपन्ने अट्ठविहकम्मगंठि निज्जरेइ ॥ ३१ ॥
हे भदन्त ! विविक्तानि स्त्री-पशुपण्डकवर्जितानि शयनासनान्युपाश्रयस्थानानि यस्य स विविक्तशयनासनः, तस्य भावो विविक्तशयनासनता, तया स्त्रीपशुपण्डकादिरहितस्थितिनिवासत्वेन जीवः किं जनयति ? गुरुराह - हे शिष्य ! विविक्तशयनासनतया जीवश्चारित्रगुप्तिं-चारित्रस्य रक्षां जनयति । गुप्तचारित्रश्च जीवो विविक्तो विकृत्यादिशरीरपुष्टिकारकवीर्यवृद्ध्यादिकृद्वस्तुरहित आहारो यस्य स विविक्ताहारः, तादृशः स्यात् । तथा दृढंनिश्चलं चरित्रं यस्य स दृढचरित्रः, पुनरत एवैकान्तेन निश्चयेन रक्त- आसक्त एकान्तरतः