________________
१३०]
[उत्तराध्ययनसूत्रे-भाग-२ हे भदन्त ! श्रुतस्याराधनया जीवः किं जनयति ? गुरुराह-हे शिष्य ! श्रुतस्याराधनया सम्यगासेवनयाऽज्ञानं क्षपयति, विशिष्टतत्त्वावबोधस्याऽवाप्तेः । च पुनर्न सङ्क्लिश्यते, रागद्वेषजनितं क्लेशं न भजतीति भावः ॥ २४ ॥
श्रुताराधना चैकाग्रमनःसन्निवेशनावत एव स्यादतस्तत्फलं प्रश्नपूर्वमाह
एगग्गमणसंनिवेसणयाए णं भंते जीवे कि जणयइ ? एगग्गमणसंनिवेसणयाए णं चित्तनिरोहं जणयइ ॥ २५ ॥ ___हे भदन्त ! हे स्वामिन् ! एकमग्रं प्रस्तावाच्छुभमालम्बनमस्येत्येकानम्, एकाग्रं च तन्मनश्चैकाग्रमनस्तस्य सन्निवेशना स्थापना, तयैकाग्रमनःसन्निवेशनया शुभावलम्बनेन चित्तस्य स्थिरीकरणेन जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! एकाग्रमनः सन्निवेशनया चित्तनिरोधं जनयति, चित्तस्येतस्तत उन्मार्गप्रस्थितस्य निरोधो - नियन्त्रणं चित्तनिरोधस्तं करोतीति भावः ॥ २५ ॥
एवंविधस्य साधोः संयमादेरिष्टफलस्य प्राप्तिरिति नियमात्तत्फलं प्रश्नपूर्वमाहसंजमेणं भंते जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ ॥२६॥
हे भगवन् ! संयमेन जीवः किं जनयति ? गुरुराह-संयमेन अनंहस्कत्वं, न विद्यतेऽहः-पापं यस्मिंस्तदनंहस्कं, तस्य भावोऽनंहस्कत्वं, तज्जनयति ।संयमेनाश्रवनिरोधं जनयतीत्यर्थः ॥२६॥
संयमवान् साधुस्तपोनिरतः स्यादतस्तत्फलं प्रश्नपूर्वकमाहतवेणं भंते जीवे किं जणयइ ? तवेणं वोदाणं जणयइ ॥ २७ ॥
हे भगवन् ! तपसा कृत्वा जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! तपसा जीवो व्यवदानं जनयति, पूर्वबद्धकर्मापगमनेन विशेषेण शुद्धि जनयति ॥ २७ ॥
व्यवदानेन किं फलं स्यात् ? अतस्तत्फलं प्रश्नपूर्वमाह
वोदाणेणं भंते जीवे किं जणयइ ? वोदाणेणं अकिरियं जणयइ, अकिरियए भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वायइ, सव्वदुक्खाणमंतं करेइ ॥२८॥
हे भदन्त ! व्यवदानेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! व्यवदानेन जीवोऽक्रियं जनयति, न विद्यते क्रिया यस्मिन् सोऽक्रियस्तमक्रियं व्युपरतक्रियाख्यं शुक्लध्यानस्य चतुर्थं भेदं जनयति । अक्रियको भूत्वा व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा, ततः पश्चात्सिद्धि व्रजति, बुद्ध्यति ज्ञानदर्शनाभ्यां सम्यग् वस्तुवेत्ता भवति, मुच्यते संसारान्मुक्तो भवति, परिनिर्वाति, परिसमन्तानिर्वाति, कर्माग्नि विध्याप्य शीतलो भवति, सर्वदुःखानामन्तं करोति ॥ २८ ॥