________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[ १२९
एतादृशीः कर्मप्रकृतीरल्पप्रदेशाग्राः प्रकरोति । इत्यनेनानुप्रेक्षयाऽशुभश्चतुर्विधोऽपि बन्धः, प्रकृतिबन्धः, स्थितिबन्धः, अनुभागबन्धः, प्रदेशबन्धश्च, शुभत्वेन परिणमतीत्यर्थः ।
अत्र चायुर्वर्जमित्युक्तं तत्त्वेकस्मिन् भवे सकृदेवान्तर्मुहूर्तकाले एवायुर्जीवो बध्नाति, च पुनरायुःकर्मापि स्याद् बध्नाति, स्यान्न बध्नाति, संसारमध्ये तिष्ठति चेत्तर्ह्यशुभमायुर्न बध्नाति, शुभं चायुर्बध्नाति, जीवेन तृतीयभागादिशेषायुष्केणायुः कर्म बध्येते, अन्यथा न बध्यते तेनायुः कर्मबन्धे निश्चयो नोक्तः, इत्यनेन मुक्तिं व्रजति तदायुर्न बध्नातीत्युक्तम् । पुनरनुप्रेक्षया कृत्वा जीवोऽसातावेदनीयं कर्म शारीरादिदुःखहेतु च कर्म, चशब्दादन्याश्चाशुभप्रकृतीनों भूयोभूय उपचिनोति ।
अत्र भूयोभूयग्रहणेनैवं ज्ञेयम्, कश्चिद्यतिः प्रमादस्थानके प्रमादं व्रजेत्तदा बध्नात्यपीति हार्दम् । पुनरनुप्रेक्षया कृत्वा जीवश्चातुरन्तं संसारकान्तारं क्षिप्रमेव ' वीईवयइ' इति व्यतिव्रजति । चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा यस्य तच्चातुरन्तं, तदेव संसारकान्तारं संसारारण्यं, तच्छीघ्रमुल्लङ्घयति । कीदृशं संसारारण्यं ? अनादिकमादेरभावादादिरहितम् । पुनः कीदृशं संसारकान्तारं ? अनवदग्रम्, अनवदनागच्छदग्रं परिमाणं यस्य तदनवदग्रमनन्तमित्यर्थः । प्रवाहापेक्षयाऽनाद्यनन्तम् । पुनः कीदृशं ? दीर्घावं दीर्घकालम्, 'दीहमद्धं' इत्यत्र मंकारोऽलाक्षणिकः प्राकृतत्वात् ॥ २२ ॥
एवमभ्यस्तशास्त्रेण धर्मकथा कर्तव्या, ततो धर्मकथाकर्तुः किं फलं स्यात् ? अतस्तत्फलमपि प्रश्नपूर्वमाह
धम्मकहाए णं भंते जीवे किं जणयइ ? 'धम्मकहाए णं पवयणं पभावेइ, पवयणप्पभावए णं जीवे 'आगमेसिस्स भद्दत्ताए कम्मं निबंधइ ॥ २३ ॥
हे स्वामिन् ! धर्मकथया जीवः कि जनयति ? गुरुराह- हे शिष्य ! धर्मकथया धर्मव्याख्यानेन जीवः प्रवचनं श्रीसिद्धान्तं भगवद्वचनं प्रभावयति - प्रकाशयति । प्रवचनप्रभावकः- सिद्धान्तोद्दीपको जीव आगमिष्यद्भद्वतयोपलक्षितं कर्म निबध्नाति, आगामिनि काले भद्रत्वेनोपलक्षितमर्थाच्छुभं कर्म समुपार्जयतीति भावः ॥ २३ ॥
पञ्चविधस्वाध्यायरतेन श्रुतमाराधितं स्यादतस्तस्य फलं प्रश्नपूर्वकमाह
सुयस्स आराहणयाए णं भंते जीवे किं जणयइ ? सुयस्स आराहणयाए णं अन्नाणं खवेइ, न य संकिलिस्सइ ॥ २४ ॥
१ इतः पूर्वे - धम्मकहाए णं निज्जरं जणयइ-इत्यपि पाठः कस्मिंश्चित् संस्करणेऽस्ति ॥
२ 'आगमेसिस्स भद्दत्ताह' - अस्य द्वौ व्याख्यानौ, एकस्तु अत्र कृत एव, द्वितीय एवं यदिवाऽऽगमिष्यतीत्यागमः - आगामी कालस्तस्मिन् शश्वद्भदतया अनवरतकल्याणतयोपलक्षितं कर्म निबध्नाति, शुभानुबन्धि शुभमुपार्जयतीति भावः ॥ बृहद्वृत्त्यां- प. ५८६ A ॥