________________
१२८ ]
[ उत्तराध्ययनसूत्रे - भाग - २
परिट्टयाए णं भंते जीवे किं, जणयइ ? परियट्टणयाए णं । वंजणाई जणयइ, वंजणलद्धिं च उप्पाएइ ॥ २१ ॥
हे पूज्य ! हे स्वामिन् ! परिवर्तनया - शास्त्रस्य गुणनेन जीवः किं जनयति ? गुरुराहहे शिष्य ! परिवर्तनया जीवो व्यञ्ज्यतेऽर्थ एभिरिति व्यञ्जनान्यक्षराणि जनयति, विस्मृतान्यक्षराण्यानयति । तथाविधकर्मक्षयोपशमाद्वयञ्जनलब्धि व्यञ्जनसमुदायरूपां पदलब्धिपदानुसारिणीं लब्धि जनयति ॥ २१ ॥
सूत्रवदर्थस्यापि विस्मरणसम्भवात्सूत्रार्थयोश्चिन्तनं विधेयम्, अतस्तत्फलमपि प्रश्नपूर्वमाह
अणुप्पेहाए णं भंते जीवे किं जणयइ ? अणुप्पेहाए णं आऊयवज्जाओ सत्तकम्मपयडीओ घणियबंधणबद्धाओ सिथिलबंधणबद्धाओ पकरेइ, दीहकालठिझ्याओ हस्सकालठिझ्याओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेड़, बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउस च णं कम्मं सिय बंधइ सिय नो बंधइ, असायावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाइ, अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ ॥ २२ ॥
भदन्त ! हे स्वामिन्! अनुप्रेक्षया सूत्रार्थचिन्तनिकया जीवः किं जनयति ? गुरुराहशिष्य ! अनुप्रेक्षया कृत्वा जीवः सप्तकर्मप्रकृतीर्ज्ञानावरण- दर्शनावरण- वेदनीय- मोहनीयनाम - गोत्रा - ऽन्तरायरूपाणां सप्तानां कर्मणां प्रकृतय एकशतचतुष्पञ्चाशत्प्रमाणाः सप्तकर्मप्रकृतयस्ताः सप्तकर्मप्रकृतीः, 'घणियबंधणबद्धा' गाढबन्धनबद्धा-निकाचिता बद्धाः शिथिलबन्धनबद्धाः प्रकरोति । यतो ह्यनुप्रेक्षा स्वाध्यायविशेषः, सा तु मनसस्तत्रैव नियोजनाद् भवति, स चानुप्रेक्षास्वाध्यायो ह्यभ्यन्तरं तपः, तपस्तु निकाचितकर्माणि शिथिलीकर्तुं समर्थं भवत्येव । कथंभूताः सप्तकर्मप्रकृतीः ? आयुर्वर्जाः, प्रकृष्टभावहेतुत्वेनायुर्वर्जयन्तीत्यायुर्वर्जा: ।
पुनर्हे शिष्य ! अनुप्रेक्षया कृत्वा जीवस्ता एव कर्मप्रकृतीदीर्घकालस्थितिकाः शुभाध्यवसाययोगात् स्थितिखण्डानामपहारेण ह्रस्वकालस्थितिकाः प्रकरोति, प्रचुरकालभोग्यानि कर्माणि स्वल्पकालभोग्यानि करोतीत्यर्थः । पुनस्तीव्रानुभावाः कर्मप्रकृतीर्मन्दानुभावाः प्रकरोति । तीव्र उत्कटोऽनुभावो रसो यासां तास्तीव्रानुभावाः, ईदृशीः कर्मप्रकृती
दो निर्बलोऽनुभाव यासां ता मन्दानुभावास्तादृशीः प्रकर्षेण विदधाति । पुनर्बहुप्रदेशाग्रा अल्पप्रदेशाग्राः प्रकरोति, बहुप्रदेशाग्रं कर्मपुद्गलदलिकप्रमाणं यासां ता बहुप्रदेशाग्राः,