________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[१२७ मैत्रीभावमुत्पादयति । मैत्रीभावं गतस्तु जीवो भावविशोधिं कृत्वा रागद्वेषनिवारणं निधायेहलोकादिसप्तभयानि निवार्य निर्भयो भवति ॥ १७ ॥
क्षामणाकारिणा साधुना स्वाध्यायः कर्तव्यः, अतस्तत्फलं प्रश्नपूर्वकमाह
सज्झाएणं भंते जीवे किं जणयइ ? सज्झाएणं नाणावरणिज्जं कम्म खवेइ ॥१८॥
हे भदन्त ! स्वाध्यायेन पञ्चप्रकारेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! स्वाध्यायेन ज्ञानावरणीयं कर्म क्षपयति ॥ १८ ॥
तत्र पञ्चविधस्य स्वाध्यायस्य पृथक्फलं प्रश्नपूर्वकमाह
वायणयाए णं भंते जीवे किं जणयइ ? वायणयाए णं निज्जरंजणयइ, सुयस्स य अणासायणाए वट्टइ, सुयस्स अणासायणाए वट्टमाणे तित्थधम्म अवलंबइ,तित्थधम्म अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ॥१९॥
हे पूज्य ! वाचनया, वाचयतीति वाचना पाठना, तया जीवः किं जनयति ? गुरुराहहे शिष्य ! वाचनया-सिद्धान्तवाचनेन निर्जरां-कर्मशाटनं जनयति, तथा पुनः श्रुतस्याऽनाशातनायां प्रवर्तते, तत्र च प्रवर्तमानो जीवस्तीर्थो-गणधरस्तस्य धर्म आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमालम्बते । ततस्तीर्थधर्ममवलम्बमानस्तीर्थधर्ममाश्रयन् महानिर्जरो भवति, महानिर्जरा यस्य स महानिर्जरो महाकर्मविध्वंसको भवति । पुनर्महापर्यवसानो महत्प्रशस्य मुक्त्यवाप्त्या पर्यवसानमन्तः कर्मणो भवस्य वा यस्य स महापर्यवसानश्च भवति, मुक्तिभाग्भवतीति हार्दम् ॥१९॥
अथ गृहीतवाचनेन पुनः संशयादौ पुनः पृच्छनं प्रतिपृच्छना, अतस्तत्फलं प्रश्नपूर्वकमाह
पडिपुच्छणयाए णं-भंते जीवे किं जणयइ ? पडिपुच्छणयाए णं सुत्तत्थतदुभयाई विसोहेइ, कंखामोहणिज्ज कम्मं वुच्छिदइ ॥ २० ॥
हे स्वामिन् ! प्रतिपृच्छनया पूर्वाधीतस्य सूत्रादेः पुनः पृच्छनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! प्रतिपृच्छनया सूत्रार्थतदुभयानि विशोधयति । सूत्रार्थयोः संशयं निवार्य निर्मलत्वं विधत्ते, तथा काङ्क्षामोहनीयं कर्म व्युच्छिनत्ति, काङ्क्षाशब्देन सन्देहः, काङ्क्षया-सन्देहेन मोहनं काङ्क्षामोहनं, तत्र भवं काङ्क्षामोहनीयम्, एतत्कर्म विशेषेणाफ्नयति । इदमित्थं तत्त्वं अथवेदमित्थं नास्ति, वेदं ममाध्ययनाय योग्यमयोग्यं वेत्यादिघटना काङ्क्षा वाञ्छा, तदूपमेव मोहनीयं कर्माऽनभिग्रहिकमिथ्यात्वरूपम्, तद्विनाशयति ॥२०॥
अधीत्य पुनः सन्देहमपि प्रतिपृच्छनेन निराकृत्य यदि परावर्तनं-गुणनं न क्रियते, तदा सुष्ठ्वधीतमपि शास्त्रं विस्मरति, अतः परावर्तनेन यत्फलं स्यात्तदपि प्रश्नपूर्वमाह