________________
१२६]
[ उत्तराध्ययनसूत्रे-भाग-२ अर्हच्चैत्यवन्दनानन्तरं स्वाध्यायो विधेयः, स च कालं दृष्ट्वैव विधीयते, अतस्तत्फलं प्रश्नपूर्वकमाह
कालपडिलेहणयाए णं भंते जीवे किं जणयइ ? कालपडिलेहणयाए णं नाणावरणिज्जं कम्मं खवेइ ॥१५॥ ...-...
हे भदन्त ! कालप्रतिलेखनया, कालस्य प्रादोषिकप्राभातिकादिकस्य प्रतिलेखना प्रत्युप्रेक्षणा, सिद्धान्तोक्तविधिना सत्यप्ररूपणाग्रहणप्रतिजागरणासावधानत्वं कालप्रतिलेखना, तया जीवः किं जनयति ? गुरुराह-हे शिष्य ! कालप्रतिलेखनया जीवो ज्ञानावरणीयं कर्म क्षपयति ॥१५॥
कदाचिदकालपाठे प्रायश्चित्तं कर्तव्यम्, तदा प्रायश्चित्तकरणे यत्फलं तदपि प्रश्नपूर्वमाह- .
पायच्छित्तकरणेणं भंते जीवे किं जणयइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निरइयारे आविभवइ, सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं च आयारफलं च आराहेइ ॥१६॥
हे भदन्त ! प्रायश्चित्तकरणेन पापशुद्धिकरणेनालोचनादिकेन जीवः किं जनयति ? गुरुर्वदति-हे शिष्य ! प्रायश्चित्तकरणेन पापकर्मविशोधिं जनयति, ततश्च निरतीचारोऽतीचाररहितो भवति । सम्यक् प्रायश्चित्तं प्रतिपद्यमानः सन् मार्ग-सम्यक्त्वं, च पुनर्मार्गफलं, मार्गस्य-सम्यक्त्वस्य फलं ज्ञानं, तद्विशोधयति, च पुनराचारमाराधयति आचारशब्देन चारित्रमाराधयति । पुनराचारस्य चारित्रस्य फलं मोक्षमाराधयति साधयति ॥ १६ ॥
प्रायश्चित्तं यदा करोति, तदा क्षामणामपि करोत्येव, अतस्तत्फलं प्रश्नपूर्वमाह
खमावणयाए णं भंते जीवे किं जणयइ ? खमावणयाए णं पल्हायणभावं जणयइ, पल्हायणभावमुवगए य सव्वपाणभूयजीवसत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुपगए यावि जीवे भावविसोहिं काऊण निब्भए भवइ ॥१७॥
हेभदन्त ! क्षामणया, दुष्कृतानन्तरं क्षन्तव्यमिदं ममेत्यादिरूपया जीवः किं जनयति ? गुरुराह-हे शिष्य ! क्षामणया गुरोरगे स्वकृतनिन्दया प्रह्लादनभावं चित्तप्रसत्तिरूपं जनयति, प्रह्लादनभावमुपगतो जीवः सर्वप्राणभूतजीवसत्त्वेषु, प्राणाश्च भूताश्च जीवाश्च सत्त्वाश्च प्राणभूतजीवसत्त्वाः, सर्वे च ते प्राणभूतजीवसत्त्वाश्च सर्वप्राणभूतजीवसत्त्वाः, तेषु