________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम्]
[१२५ एवमपि शुद्धयमानेन प्रत्याख्यानं कार्यम्, अतस्तफलं प्रश्नपूर्वकमाह
पच्चक्खाणेणं भंते जीवे किं जणयइ ? पच्चक्खाणेणं आसवदाराई निरंभइ, 'पच्चक्खाणेणं इच्छानिरोहं जणयइ, इच्छानिरोहगए णं जीवे सव्वदव्वेसु विणीयतण्हे सीयलभूए विहरड् ॥ १३ ॥
हे भदन्त ! प्रत्याख्यानेन - मूलगुणोत्तरगुणरूपप्रत्याख्यानेन जीवः किं जन-यति ? गुरुराह-हे शिष्य ! प्रत्याख्यानेनाश्रवद्वाराणि निरुणद्धि, अतिशयेनावृणोति । अत्र प्रत्यन्तरे कुत्रचिदयं प्रश्नोति-हे स्वामिन् ! प्रत्याख्यानेन जीवः किं जनयति ? अत्रोत्तरं-हे शिष्य ! प्रत्याख्यानेनेच्छानिरोधमाहारादिवाञ्छाया निरोधं जनयति । इच्छानिरोधं प्राप्तो जीवः सर्वदव्येषु सुविनीततृष्णो भवति, सुतरामतिशयेन विनीता-स्फेटिता तृष्णा येन स सुविनीततृष्णः, अत्यन्तदूरीकृततृष्णः सन् शीतलीभूतो विहरति, बाह्याभ्यन्तरसन्तापरहितो विचरति ॥ १३ ॥
प्रत्याख्यानानन्तरं चैत्यवन्दना कार्या, अतस्तत्फलं प्रश्नपूर्वमाह
थवथुइमंगलेणं भंते जीवे किं जणयइ ? थवथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं जणयइ, नाणदंसणचरित्तबोहिलाभसंपन्ने य जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेइ ॥१४॥ ___ हे भदन्त ! स्तवः शक्रस्तवरूपः, स्तुतिर्यो/भूयकथनरूपा, अथवैकादिसप्तश्लोकान्ता यावदष्टोत्तरशतश्लोका वाच्याः । स्तुतिश्च स्तवश्च स्तुतिस्तवौ, तावेव मङ्गलं भावमङ्गलरूपं स्तुतिस्तवरूपं मङ्गलं, तेन स्तुतिस्तवमङ्गलेन जीवः किं जनयति ? स्तवस्तुतिमङ्गलेनेति पाठस्तु आर्षत्वात् । गुरुः प्रश्नोत्तरमाह- हे शिष्य ! स्तुतिस्तवमङ्गलेन जीवो ज्ञानदर्शनचारित्रबोथिलाभं जनयति । तत्र ज्ञानं मतिश्रुतादि, दर्शनं क्षायिकसम्यक्त्वं, चारित्रं विरतिरूपं, तद्रूप एव बोधिलाभो जैनधर्मप्राप्तिानदर्शनचारित्रबोधिलाभस्तं जनयति । ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीव आराधनां ज्ञानादीनामासेवनामाराधयति साधयति । कीदृशीमाराधनां ? कल्पविमानोत्पत्तिकां, कल्पाश्च विमानानि च तेषूत्पत्तिर्यस्याः सा कल्पविमानोत्पत्तिका, ताम् । पुनः कीदृशीमाराधनां ? अन्तक्रियां, अन्तस्य संसारस्य कर्मणां वाऽवसानस्य क्रियान्तक्रिया, ताम्, एवंभूतां ज्ञानाधाराधनां साधयति । कल्पाः सौधर्मादयो देवलोकाः, विमानानि नवग्रैवेयकपञ्चानुत्तरविमानानि । ज्ञानाद्याराधनया कश्चिद्भरतादिवद्दीर्घकालेन मुक्तिं प्राप्नोति, कश्चिद् गजसुकुमालवत्स्वल्पकालेनैव मुक्तिं प्राप्नोतीति भावः ॥१४॥ १ पच्चक्खाणेणं इच्छानिरोहं जणयइ, इच्छानिरोहगए णं जीवे सव्वदव्वेसु विणीयतण्हे सीयलभूए विहरइ-एवं पाठोऽन्यसंस्करणे नास्ति ।