________________
१२४]
[ उत्तराध्ययनसूत्रे-भाग-२ हे भदन्त ! हे पूज्य ! वन्दनकेन-गुरूणां द्वादशावतविधिवन्दनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! श्रीगुरूणां वन्दनकेन नीचैर्गोत्रं कर्म क्षपयति, गुरूणां वन्दनकारी नीचैर्गोत्रे नावतरतीत्यर्थः, पूर्वबद्धं च क्षपयति । उच्चैर्गोत्रकर्म बध्नाति, उच्चैर्गोत्रेऽवतरतीत्यर्थः । पुनरुच्चैर्गोत्रेऽवतीर्णः सन् सौभाग्यं सर्वलोकेषु वल्लभत्वं, पुनरप्रतिहतं केनापि निवारयितुमशक्यमाज्ञाफलमाज्ञासारं प्रभुत्वं निवर्तयत्युत्पादयति । च पुनर्दाक्षिण्यभावं सर्वलोकानामनुकूलत्वं जनयति ॥१०॥
एतद्गुणोपयुक्तेन साधुना आदीश्वरमहावीरयोस्तीर्थे प्रवर्तमानेनावश्यं प्रतिक्रमणं कार्यम्, अतस्तत्फलं प्रश्नपूर्वमाह___ पडिक्कमणेणं भंते जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ पिहियवयछिद्दे पुण जीवे निरुद्दासवे असबलचरित्ते, अट्ठसु पवयणमायासु उवउत्ते, अपुहत्ते सुप्पणिहिदिए विहरइ ॥ ११ ॥
हे भदन्त ! प्रतिक्रमणेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! प्रतिक्रमणेनाऽपराधेभ्यः पश्चान्निवर्तनेन व्रतच्छिद्राणि पिदधाति, व्रतानां प्राणातिपातविरमणादीनां छिदाण्यतीचारान् स्थगयति-रुणद्धि, पिहितव्रतच्छिदः सन् पुनर्जीवो निरुद्धाश्रवो भवति ।निरुद्धाश्रवश्च पुनरशबलचारित्रो-निर्मलचारित्रोऽष्टसु प्रवचनमातृषूपयुक्तः सन् समितिगुप्तिषु सावधानः सन्नपृथक्त्वः संयमयोगेभ्योऽभिन्नः सन् सुप्रणिहितो विहरति, सुप्रणिहितान्यसन्मार्गानिषेध्य सन्मार्गे व्यवस्थापितानीन्द्रियाणि येन स सुप्रणिहितेन्द्रियः- सन्मार्गप्रस्थापितेन्द्रियः साधुः स्वमार्गे विहरतीत्यर्थः ॥ ११ ॥
अत्रातीचारविशुद्धयर्थं कायोत्सर्ग करोति, अतस्तत्फलं प्रश्नपूर्वकमाह
काउसग्गेणं भंते जीवे किं जणयइ ? काउसग्गेणं तीयपडुप्पन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते णं जीवे निव्वुइयहियए ओहरियभरुव्वभारवहे पसत्थझाणोवगए सुहं सुहेणं विहरइ ॥१२॥
हे भदन्त ! कायोत्सर्गेऽतीचारविशुद्धयर्थं कायस्य व्युत्सर्जनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! कायोत्सर्गेणातीतं चिरकालसम्भूतं, प्रत्युत्पन्नमासनकाले वर्तमान प्रायश्चित्तमुपचारात्प्रायश्चित्तार्हमतीचारं विशोधयत्यपनयति । विशुद्धप्रायश्चित्तश्च जीवो निवृतं-स्वस्थीकृतं हृदयं यस्य स निर्वृतहृदयः प्रशस्तसद्भावनायामुपगतः सुखंसुखेन विहरति, सुखानां परम्परया विचरति । क इव ? अपहृतभारो भारवह इव, यथोत्तारितभारभरो भारवाहकः सुखंसुखेन विहरति, तथा कायोत्सर्गेण प्रायश्चित्तविशुद्धि विधाय स्वस्थीकृतहृदयो जीवः सुखेन विचरतीति भावः ॥ १२ ॥