________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[१२३ कश्चित्स्वदोषान्निन्दन्नपि पापभीरुतया गर्हामपि कुर्यात्, अतस्तत्फलं प्रश्नपूर्वमाह
गरहणाए णं भंते जीवे किं जणयइ ? गरहणाए णं अपुरक्कारं जणयइ, अपुरकारगए णं जीवे अप्पसत्थेहिंतो जोगेहितो निवत्तेइ, पसत्थजोगे य पवत्तेइ पसत्थजोगपडिवन्ने य णं अणगारे अणंतधाइपज्जवे खवेइ ॥७॥
शिष्यः पृच्छति-हे स्वामिन् ! गर्हणेन-परसमक्षमात्मनो दोषोद्भावनेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! जीवो गर्हणेनाऽपुरस्कारं जनयति, आत्मनि गुरुत्वारोपणं पुरस्कारः, न पुरस्कारोऽपुरस्कारस्तमपुरस्कारमात्मनोऽवहीलां जनयति । यदा हि स्वस्य गर्हणां करोति, स्वस्य धिक्क्रियां करोति, तदाऽवहीलावान् भवति ।अपुरस्कारगतो जीवोऽप्रशस्तेभ्यः कर्मबन्धहेतुभ्यो योगेभ्यो निवर्तते, अप्रशस्तकर्मबन्धहेतुयोगान्नाङ्गीकुरुते, प्रशस्तयोगांस्तु प्रतिपद्यते । प्रशस्तयोगप्रतिपन्नश्च, प्राकृतत्वात्प्रतिपन्नप्रशस्तयोगोऽङ्गीकृतसम्यग्योगोऽनन्तघातिनः पर्यायान् क्षपयति । अनन्तविषयतयाऽनन्ते ज्ञानदर्शने हन्तुंविनाशयितुं शीलं येषां तेऽनन्तघातिनः, तान् पर्यायान् ज्ञानावरणादिकर्मणां पर्यवान् परिणतिविशेषान् क्षपयति ॥७॥
आलोचनादीनि सामायिकवत एव भवन्तीत्यतस्तत्प्रश्नोत्तरपूर्वं फलमाह
सामाइए णं भंते जीवे किं जणयइ ? सामाइए णं सावज्जजोगविरई जणयइ ॥८॥
हे भदन्त ! सामायिकेन - समतारूपेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! सामायिकेन सावद्ययोगविरतिं जनयति, कर्मबन्धकारणेभ्यः सपापमनोवाकाययोगेभ्यो विरतिं पश्चान्निवर्तनं जनयति ॥८॥
अथ सामायिकवांश्चतुर्विंशतिजिनस्तुतिं विधत्ते, तत्कारकस्य फलं प्रश्नपूर्वमाह
चउवीसत्थए णं भंते जीवे किंजणयइ ? चउवीसत्थए णं दंसणविसोहिं जणयइ ॥९॥
हे भदन्त ! हे स्वामिन् ! चतुर्विंशतिस्तवेन ‘लोगस्सुज्जोयगरे' इत्यादिपठनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! चतुर्विंशतिस्तवेन दर्शनविशुद्धि जनयति, सम्यक्त्वनैर्मल्यं करोति ॥९॥
वंदणए णं भंते जीवे कि जणयइ ? वंदणए णं नीयागोयं कम्म खवेइ, उच्चागोयं कम्मं निबंधइ, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेइ, दाहीणभावं च णं जणयइ ॥१०॥