________________
- भाग-२
[ उत्तराध्ययनसूत्रे -: सञ्ज्वलनभक्तिबहुमानतया पुमान् भवेत् । यस्य गुणश्लाघाभक्तिप्रीतयः सर्वैः क्रियते, तादृगुत्तमकुलप्रसूतो नरः स्यादित्यर्थः । देवोऽपि च महद्भिकः स्यात् । च पुनः स सिद्धिसङ्गतिं च मोक्षरूपां समीचीनगतिं विशेषेण शोधयति, प्रशस्तानि च विनयमूलानि श्रुतज्ञानादीनि सर्वाणि धर्मकार्याणि शोधयति । स च स्वयं विनयमूलसर्वकार्यविशोधकः सन्नन्यानपि बहून् जीवान् विनेता-विनयं ग्राहयिता भवति ॥ ४ ॥
गुरुशुश्रूषां कुर्वाणस्याऽतीचारसम्भवेऽतीचारालोचनाद्यत्फलं भवति, तत्प्रश्नपूर्वमाहआलोयणाए णं भंते जीवे किं जणयइ ? आलोयणाए णं मायानियाणमिच्छादरिसणसल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च जणयइ, उज्जुभावपंडिवन्नेवि य णं जीवे अमाई इत्थवेयं नपुंसगवेयं च ण बंधइ, पुव्वबद्धं च निज्जरेइ ॥ ५ ॥
१२२]
भगवन् ! हे भदन्त ! हे पूज्य ! आलोचनया गुर्वग्रे आत्मनो दोषप्रकाशनेन जीवः किं जनयति ? तदा गुरुराह - आलोचनया कृत्वा जीवो मायानिदानमिथ्यादर्शनशल्यानामुद्धरणं करोति । तत्र माया- कापट्यम्, निदानं तपसो विक्रयः, ममास्य तपसः फलं स्यात्तर्हि राज्येन्द्रादिपदभागहं स्यामिति निदानम्, मिथ्यादर्शनं सांशयिकादिविपरीतमतिरूपं, माया च निदानं च मिथ्यादर्शनं च मायानिदानमिथ्यादर्शनानि, तान्येव शल्यानि मायानिदानमिथ्यादर्शनशल्यानि तेषामुद्धरणं दूरीकरणं करोतीत्यर्थः । कीदृशानां मायानिदानमिथ्यादर्शनशल्यानां ? मोक्षमार्गे विघ्नकारकाणां पुनः कीदृशानां ? अनन्तसंसारवर्धनानाम्, पुनः ऋजुभावं सरलत्वं जनयति, ऋजुभावं प्रतिपन्नोऽपि निश्चयेन, 'णं' वाक्यालङ्कारे, जीवोऽमायी मायारहितः सन् स्त्रीवेदं नपुंसकवेदं च न बध्नाति । स्त्रीवेदनपुंसकवेदं चेत्पूर्वं बद्धं स्यात्तर्हि निर्जरयति ॥ ५ ॥
आलोचना हि दुष्कृतनिन्दाकारकस्यैव सफला स्यात्, अतस्तत्फलं प्रश्नपूर्वमाहनिंदणयाए णं भंते जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ, पच्छाणुतावेणं विरज्जमाणे करणगुणसेढिं पडिवज्जइ, करणसेढि पडिव अणगारे मोहणियं कम्मं उग्घाएइ ॥ ६ ॥
हे भदन्त ! निन्दनया जीवः किं जनयति ? गुरुराह हे शिष्य ! आत्मनः पापस्य निन्दनेन पश्चात्तापं जनयति, हा ! मया दुष्कृतं कृतम्, इत्यादिबुद्धिमुत्पादयति, पश्चात्तापेन विरज्यमानो - वैराग्यं प्राप्नुवन् सन् करणगुणश्रेणिम्, अपूर्वकरणेन पूर्वं कदाप्यप्राप्तेन विशदमन:परिणामविशेषेण गुणश्रेणि-क्षपक श्रेणि प्रतिपद्यतेऽङ्गीकुरुते । करणगुणश्रेणि प्रतिपन्नः प्रतिपन्नापूर्वगुणश्रेणिः सन्ननगारः साधुर्मोहनीयं कर्म दर्शनमोहनीयादिकं कर्मोद्घातयतेऽतिशयेन क्षपयति ॥ ६ ॥