________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[१२१ धम्मसद्धाए णं भंते जीवे किं जणयइ ? धम्मसद्धाए णं सायासोक्खेसु रज्जमाणे विरज्जइ, आगारधम्मं च णं चयइ, अणगारेणं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वोच्छेयं करेइ, अव्वाबाहं च णं सुहं निव्वत्तेइ ॥३॥ ____ हे स्वामिन् ! हे पूज्य ! धर्मश्रद्धया धर्मविषये रुच्या जीवः किं जनयति ? गुरुराहहे शिष्य ! धर्मश्रद्धया सातासुखेषु सातावेदनीयकर्मजनितसुखेषु विषयसुखेषु रज्यमानः पूर्वं रागं कुर्वाणो विरज्यते-विरक्तो भवति । तदाऽऽगारधर्म-गृहस्थधर्म त्यजति, ततश्चानगारः साधुः सन् जीवः शारीरमानसानां दुःखानां व्याधीनां छेदनभेदनसंयोगवियोगादीनां कष्टानां व्युच्छेदं करोति, तन्निबन्धनकर्मोच्छेदं करोति । ततश्चाऽव्याबाधसुखं-मोक्षसुखं निवर्तयति । मोक्षसुखं निष्पादयतीत्यर्थः ॥३॥
धर्मश्रद्धानन्तरं गुर्वादीनां शुश्रूषको भवति, अतस्तत्फलं प्रष्टकामः शिष्य आह
गुरुसाहम्मियसुस्सुसणयाए णं भंते जीवे किं जणयइ ? गुरुसाहम्मियसुस्सुसणयाए णं विणयपडिवत्तिं जणयइ, विणयपडिवन्ने य णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमाणुस्सदेवकुगइओ निरंभइ, वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवसुग्गइओ निबंधइ, सिद्धिसुगई च विसोहेइ, पसत्थाइं च णं विणयमूलाई सव्वकज्जाइं 'सोहेइ, अन्ने य बहवे जीवे विणयत्ता भव ॥४॥ ___हेभगवन् !गुरूणामाचार्याणां साधर्मिकाणामेकधर्मवतां शुश्रूषया-सेवया जीवः किं जनयति ? तदा गुरुराह-गुरुसार्मिकशुश्रूषया विनयप्रतिपत्तिं विनयधर्मस्याराधनां विनयाङ्गीकारत्वं जनयति ।विनयं प्रतिपन्नः प्रतिपन्नविनयोऽङ्गीकृतविनयो जीवोऽनत्याशातनशीलः सन्नाचार्यादीनामभक्तिनिन्दाहीलाऽवर्णवादाद्याशातनानिवारकः सन् नरकतिर्यग्योनि, तथा मनुष्यदेवयोः कुगतिं च रुणद्धि-निषेधयति । आचार्याणामत्याशातनानिवारको नरो नरकयोनौ नोत्पद्यते, तिर्यग्योनौ च नोत्पद्यते, मनुष्येषु कुयोनौ म्लेच्छादौ, देवेषु कुयोनौ किल्बिषादौ नोत्पद्यते।...
तथा पुनर्वर्णसज्वलनभक्तिबहुमानतया मानवेषूच्चैःकुलेषु सर्वसुखभाग् मनुष्यः स्यात् । वर्ण:-श्लाघा, तेन वर्णेन सज्वलनं गुणप्रकटीकरणं वर्णसज्वलनम्, भक्तिरभ्युत्थानादिका, बहुमानोऽभ्यन्तरप्रीतिविशेषः, वर्णश्च सज्वलनं च भक्तिश्च बहुमानश्च वर्णसज्वलनभक्तिबहुमानाः, तेषां भावो वर्णसज्वलनभक्तिबहुमानता, तया वर्ण
१देवदग्गइओ-अन्यसंस्करणे ॥ २साहेइ-अन्यसंस्करणे, तत्र वृत्ति-साधयति ।