________________
१२०]
[उत्तराध्ययनसूत्रे-भाग-२ इत्येतेषां त्रिसप्ततिवचनानामर्थमुक्त्वा, अर्थतेषामेव प्रत्येकं फलमाह
संवेगेणं भंते जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ, अमुत्तराए धम्मसद्धाए सवेगं हव्वमागच्छइ,अणंताणुबंधिकिोहमाणमायालोभे खवेइ, नवंच कम्मं न बद्धइ, तप्पच्चईयंचणं मित्थत्तविसोहि काऊण दंसणाराहए भवइ, दंसणविसोहिएणं विसुद्धाए अच्छेगइए तेणेव भवग्गहणेणं सिज्जइ, सोहिए णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ॥१॥
शिष्यः पृच्छति, हे भदन्त ! हे पूज्य ! संवेगेन-मोक्षाभिलाषेण कृत्वा जीवः किं जनयति ? किमुत्पादयति ? तदा गुरुराह-हे शिष्य ! संवेगेन कृत्वा जीवोऽनुत्तरां प्रधानां धर्मश्रद्धां-धर्मरुचिं जनयति, तया प्रधानया धर्मस्य श्रद्धया संवेगं - मोक्षाभिलाषं 'हव्व' इति शीघ्रमागच्छति-प्राप्नोति । ततो नरकानुबन्धिनो नरकगतिदायिनोऽनन्तानुबन्धिक्रोधमानमायालोभांश्चतुरोऽपि कषायान् क्षपयति, नवं च कर्म न बध्नाति । तत्प्रत्ययाम्, स एवाऽनन्तानुबन्धिचतुष्कषायक्षय एव प्रत्ययः-कारणं यस्याः सा तत्प्रत्यया, तां तत्प्रत्ययामनन्तानुबन्धिकषायक्षयादुत्पन्नां मिथ्यात्वविशुद्धि - सर्वथा मिथ्यात्वक्षतिं कृत्वा दर्शनाराधको भवति । क्षायकशुद्धसम्यक्त्वस्याराधको निरतिचारपालको भवति । ततः सम्यक्त्व-विशुद्ध्या विशुद्धयाऽतिनिर्मलयाऽस्त्येकः कश्चिद् भव्यो यः स तेनैव भवग्रहणेन, तेनैव जन्मोपादानेन सिद्धयति-सिद्धि प्राप्नोति । एकः पुनः सम्यक्त्वस्य निर्मलया विशुद्धया तृतीयं पुनर्भवग्रहणं नातिक्रामति । इत्यनेन शुद्धक्षायिकसम्यक्त्ववान् भवत्रयमध्ये मोक्षं व्रजत्येव ॥१॥
निव्वेएणं भंते जीवे किं जणयइ ? निव्वेएणं दिव्वमाणुसतेरिच्छिएसु कामभोगेसु निव्वेयं हव्वमागच्छइ, सव्वविसएसु विरज्जइ, सव्वविसएसु विरज्जमाणो आरंभपरिग्गहपरिच्चायं करेइ, आरंभपरिग्गहपरिच्चायं करेमाणे संसारमग्गं वोछिंदइ, सिद्धिमग्गं पडिवन्ने भवइ ॥२॥
__ हे भगवन् ! हे पूज्य ! निर्वेदेन सामान्येन संसाराद्विरागभावेन जीवः किं जनयति ? गुरुराह-निर्वेदेन देवमनुष्यतिर्यग्सम्बन्धिषु कामभोगेषु निर्वेद-विरागं, एते कामभोगा विरसाः, एतेषु कोऽनुरागः ? इति बुद्धिः शीघ्रमायाति । तदा सर्वविषयेषु सर्वविषयेभ्यो विरक्तः स्यात्, सर्वविषयेभ्यो विरज्यमानः पुमानारम्भः- कर्षणादिः, परिग्रहो-धनधान्यादिषु मूर्छारूपः, तयोः परित्यागं करोति ।आरम्भपरिग्रहपरित्यागं कुर्वाणः संसारमार्ग मिथ्यात्वाऽविरत्यादिकं व्युच्छिन्नत्ति, सिद्धिमार्ग प्रतिपन्नो भवति,शुद्धक्षायिकसम्यक्त्वरूपं मुक्तिमार्ग प्रत्युन्मुखो भवति ॥२॥ १ आरंभपरिच्चायं-अन्यसंस्करणे॥