________________
॥ २९ सम्यक्त्वपराक्रमाख्यमध्ययनम् ॥
पूर्वस्मिन्नध्ययने मोक्षमार्गगतिरुक्ता सा च वीतरागत्वपूर्विकेति यथा वीतरागत्वं स्यात्तथाभिधायकमेकोनत्रिंशत्तमं कथ्यते
सुयं मे आसं ते भगवया एवमक्खायं, इह खलु सम्मत्तपरक्कमे नामज्झयणे समणं भगवया महावीरेणं कासवेणं पवेइया, जं सम्मं सद्दहित्ता, पत्तियाइत्ता, रोइत्ता, फासित्ता, पालइत्ता, तीरइत्ता, किट्टइत्ता, सोहइत्ता, आराहित्ता, आणाए अणुपालइत्ता बहवे जीवा सिज्झंति बुज्झंति मुच्चति परिनिव्वाइंति, सव्वदुक्खाणमंतं करंति ॥ १ ॥ इत्यालापकम् ।
हे आयुष्यमन्निति सम्बोधनम्, हे जम्बू ! मया श्रुतं, तेन भगवता ज्ञानवता आयुष्मता जीवता विद्यमानेन श्रीमहावीरेणैवमाख्यातमेवं कथितम् । एवमिति किमुक्तं ? तदाहइहास्मिन् जगत्याग वा खलु निश्चयेन सम्यक्त्वपराक्रमं नामाध्ययनम्, सम्यक्त्वे सति वर्धमानैर्गुणैः कर्मशत्रुजयलक्षणः पराक्रमो बलं यस्मिंस्तत्सम्यक्त्वपराक्रमं नामाध्ययनं श्रमणेन तपस्विना भगवतैश्वर्ययुक्तेन श्रीमहावीरेण काश्यपगोत्रीयेण प्रवेदितम्, यत्सम्यक्त्वपराक्रममध्ययनं श्रद्धाय सूत्रार्थाभ्यां सामान्येन प्रतिपद्य, प्रतीत्य विशेषेण प्रतीतिमानीय, रोचयित्वा तस्याध्ययनस्यार्थाभिलाषमनुष्ठानाभिलाषमात्मन्युत्पाद्य, पुनः स्पृष्ट्वा मनोवाक्कायैस्तदुक्तानुष्ठानं संस्पृश्य, पालयित्वा तस्याध्ययनस्य गुणेनातीचारवर्जनेन रक्षयित्वा तीरयित्वाऽनुष्ठानं पारं नीत्वा, कीर्तयित्वा गुरुं प्रति विनयपूर्वकं मया भवद्भ्यः सकाशात्सम्यक्प्रकारेण सम्पूर्णमधीतमिति कथनेन, शोधयित्वा गुरोर्वचनात् पश्चाच्छुद्धं कृत्वा, आराध्य यथोक्तोत्सर्गापवादनयविज्ञानेन सेवनं कृत्वा, आज्ञया गुर्वादेशेनानुपाल्य, नित्यमासेव्य बहवो जीवाः सिद्ध्यन्ति-सिद्धिगुणयुक्ता भवन्ति, बुद्धयन्ति-घातिकर्मनिवारणेन तत्त्वज्ञा भवन्ति, मुच्यन्ते भवोपग्राहिकर्मचतुष्टयबन्धान्मुक्ता भवन्ति, परिनिर्वान्ति कर्मदावानलोपशमेन शीतलत्वं प्राप्नुवन्ति । सर्वदुःखानां शारीरमानसानामन्तं कुर्वन्ति । इत्यालापकार्थः ॥ १ ॥
तस्स णं अयमट्ठे एवमाहिज्जइ ॥ २ ॥
तस्य सम्यक्त्वपराक्रमाध्ययनस्यायं वक्ष्यमाणोऽर्थं एवममुना प्रकारेण श्रीमहावीरेणाख्यायते - कथ्यते ॥ २ ॥
तं जहा-संवेगे १, निव्वेए २, धम्मसद्धा ३, गुरुसाहम्मियसुस्सूसणया ४, आलोअयणा ५, निंदणया ६, गरहणया ७, सामाईए ८, चउवीसत्थए ९, वंदणे १०, पडिक्कमणे ११, काउस्सग्गे १२, पच्चक्खाणे १३, थयथुइमंगले