________________
११६]
[उत्तराध्ययनसूत्रे-भाग-२ दशे सयोगाख्ये गुणस्थाने, तथाऽयोगाख्ये च चतुर्दशे गुणस्थाने वर्तमानस्य भवति, एतत्पञ्चविधं चारित्रं भवति । कीदृशं चारित्रं ? चयरित्तकरं' चयानां-कर्मराशीनां रिक्तमभावं करोतीत्येवंशीलं, चयानां रिक्तकरं तीर्थकरैराख्यातं, कर्मराशीनामभावकरं, सामायिकादिपञ्चविधं चारित्रं कर्मक्षयकारकमित्यर्थः ॥ ३३ ॥ अथ तपोभेदमाह
तवो य दुविहो वुत्तो, बाहिरोभितरो तहा ।
बाहिरो छव्विहो वुत्तो, एवमभितरो तवो ॥३४॥ तपो द्विविधं प्रोक्तम्, बाह्यं तथाभ्यन्तरं, बाह्यं षड्विधं प्रोक्तम् एवमिति षड्विधमेवाभ्यन्तरमपि तपः प्रोक्तम् ॥३४॥ अथ ज्ञानदर्शनचारित्राणां मध्ये मोक्षमार्गे कस्य कीदृशो व्यापारो वर्तते ? तमाह -
नाणेण जाणई भावे, दंसणेण य सद्दहे ।
चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ॥ ३५ ॥ ज्ञानेन-मतिज्ञानादिना भावान्-जीवाजीवादीन् जानाति, च पुनदर्शनेन भगवद्वचनं श्रद्धया श्रद्धते सत्यत्वेनाङ्गीकुरुते । चारित्रेण-विरतिप्रत्याख्यानेन निगृह्णाति, विषयेभ्यो निवर्तते । तपसा परि-समन्तात् शुद्धयति कर्ममलापगमानिमलो भवतीत्यर्थः ॥ ३५ ॥
अथ मोक्षफलभूतां गतिमाह
खवित्ता पुव्वकम्माई, संजमेण तवेण य।
सव्वदुक्खपहीणट्ठा, पक्कमंति महेसिणो ॥३६॥त्तिबेमि ॥ महर्षयो महामुनयः संयमेन सप्तदशविधेन, पुनस्तपसा द्वादशविधेन, चशब्दाद् ज्ञानदर्शनाभ्यां च पूर्वकर्माणि पूर्वोपार्जितकर्माणि क्षपयित्वा प्रहीणसर्वदुःखार्थाः सन्तो मोक्षाभिलाषिणः सन्तः प्रक्रमन्ति-पराक्रमं कुर्वन्तः सिद्धि गच्छन्ति । प्रहीणानि प्रकर्षण हानि प्राप्तानि सर्वदुःखानि यत्र तत्प्रहीणसर्वदुःखं-मोक्षस्थानं, तदर्थयन्तेऽभिलषन्तीति प्रहीणसर्वदुःखार्था, मोक्षाभिलाषिण इत्यर्थः । प्रहीणसर्वदुःखार्था इति स्थाने सर्वदुःखप्रहीणार्था इति पाठस्तु आर्षत्वात् । इत्यहं ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥३६॥
इति मोक्ष मार्गीयाख्यमध्ययनम् सम्पूर्णम् ॥ २८ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां मोक्षमार्गीयाख्यमष्टाविंशमध्ययनं सम्पूर्णम् ॥ २८ ॥