________________
२८, मोक्षमार्गीयाख्यमध्ययनम्]
[११५ अकसायमहक्खायं, छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारित्तं होइ आहियं ॥ ३३ ॥ युग्मम् ॥ अथ प्रथमं सामायिकं चारित्रं ज्ञेयम्, समो रागद्वेषरहितश्चित्तपरिणामः, तस्मिन्, समेऽयो-गमनं समायः, समाय एव सामायिकम् । अथवा समानां ज्ञानदर्शनचारित्राणामायोलाभः समायः, समाय एव सामायिकं सर्वसावधपरिहाररूपम् । यद्यपि सर्वमपि चारित्रं सामायिकमेवोच्यते, तथापि छेदोपस्थापनादिभेदेषु प्रथमत्वात्प्रथमं नाम्नां भेदाद् ज्ञेयम् । यतो हि शब्दाधिक्यादर्थाधिक्यं प्रथमं कथनमात्रत्वेन । तदपि सामायिकं नाम चारित्रं द्विविधं, इत्वरं १ । यावत्कथितं च २ । भरतैरवतमहाविदेहेषु मध्यमजिनतीर्थेषु चोपस्थाप-नायाः सद्भावे यावत्कथितं सम्भवति, उपस्थापनाया अभावे यावज्जीवमपि भवति । इत्वरं छेदोपस्थापनीयानां साधुनां भवति ।
तथा द्वितीयं छेदोपस्थापनीयम्, अस्य शब्दस्य कोऽर्थः ? सातिचारस्य निरतिचारस्य वा साधोस्तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदच्छेदः, तस्मै छदाय योग्योपस्थापना महाव्रतारोपणा यस्मिस्तच्छेदोपस्थापनं चारित्रं द्वितीयं ज्ञेयम् । तदपि द्विविधं, सातिचारं निरतिचारं च । ___ अथ परिहारविशुद्धं तृतीयम्, परिहारस्तपोविशेषः तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं भवति । तद्विधिश्चायं-नव यतयो गणात्पृथग्भूयाष्टादशमासान् यावत्साधयन्ति । तत्र नवसाधूनां मध्ये चत्वारः परिहारिका भवन्ति, चत्वारोऽन्ये तेषां वैयावृत्त्यकराः, तेऽनुपरिहारिका भवन्ति । एकस्तु नवमः कल्पस्थितो वाचनाचार्यो भवति । एवं षण्मासं यावत्तपः कृत्वा, पश्चात् षण्मासं यावद्ये परिहारिकास्तेऽनुपहारिका भवन्ति, अनुपहारिकाश्च परिहारिका भवन्ति । षण्मासं यावदेव तपः कुर्वन्ति । ततश्च यः कल्पस्थितः सोऽपि तेनैव विधिना षण्मासं यावत्तपः करोति, शेषेषु षट्सु मासेष्वेकः कश्चित् कल्पस्थितो भूत्वा, तेऽन्ये सर्वेऽप्यनुपहारिकाश्च भवन्ति । एवं विधिनाऽष्टादशमासप्रमाणः कल्पो ज्ञातव्यः । कल्पसमाप्तौ तु पुनः परिहारविशुद्धिमन्तो नवापि यतयो जिनकल्पं वा गणं वाऽऽश्रयन्ति । एतदाचारवन्तः साधवो हि जिनस्य, जिनपार्श्वे स्थितस्य स्थविरस्य गणधरस्य वा समीपं प्रतिपद्यन्ते, नान्यस्य पार्श्वे तिष्ठन्ति । तेषां चारित्रं परिहारविशुद्धिकं तृतीयं ज्ञेयम् ।
तथा सूक्ष्मसम्परायं चतुर्थं भवति । सूक्ष्मः-किट्टीकरणात् स्वल्पीकृतः सम्परायोलोभाख्यः कषायो यत्र तत् सूक्ष्मसम्परायम् । एतच्चारित्रं उपशमश्रेणिक्षपक श्रेण्यारूढस्य साधोर्लोभानुवेदनसमये भवति । सूक्ष्मं संपरायं' इत्यनुस्वारः प्राकृतत्वात् ॥ ३२॥ ___ अकषायं-कषायरहितं क्षपितकषायावस्थायामेतद्भवति, यथाख्यातनामकं तीर्थङ्करोक्तं पञ्चमं ज्ञेयम् । इदं हि यथाख्यातं चारित्रं छद्मस्थस्योपशान्तमोहाख्ये एकादशे, तथा क्षीणमोहाख्ये द्वादशे गुणस्थाने वर्तमानस्य भवति । वाऽथवा जिनस्य केवलिनस्त्रयो