________________
११४]
[उत्तराध्ययनसूत्रे-भाग-२ पुनदर्शने - सम्यकत्वे तु चारित्रेण भवितव्यम्।अथवा सम्यक्त्वे चारित्रं भक्तव्यं भजनीयम् सम्यक्त्वं च चारित्रं च सम्यक्त्वचारित्रे, युगपदेककालमुत्पद्यते इति शेषः । तथापि तत्रानुक्रमोऽस्ति, पूर्वं सम्यक्त्वं पश्चाच्चारित्रमुत्पद्यते । सम्यक्त्वचारित्रयोर्युगपदुत्पादेऽप्ययं नियमोऽस्तीति भावः ॥ २९ ॥
पुनरपि तदेवाह - नादंसणिस्स नाणं, नाणेण विणा न होइ चरणगुणा । अगुणिस्स नत्थि मुक्खो, नत्थि अमोक्खस्स निव्वाणं ॥३०॥
अदर्शनिनः-सम्यक्त्वरहितस्य ज्ञानं नास्ति, इत्यनेन सम्यक्त्वं विना सम्यग्ज्ञानं न स्यादित्यर्थः । ज्ञानं विना चारित्रगुणाः, चारित्रं पञ्चमहाव्रतरूपं, तस्य गुणाः पिण्डविशुद्ध्यादयः करणचरणसप्ततिरूपा न भवन्ति । अगुणिनश्चारित्रगुणै रहितस्य मोक्षः-कर्मक्षयो नास्ति, अमोक्षस्य-कर्मक्षयरहितस्य निर्वाणं - मुक्तिसुखप्राप्तिर्नास्ति ॥ ३० ॥ अथ सम्यक्त्वस्याष्टावाचारानाह
निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठीय ।
उववूह थिरीकरणे, वच्छल्लपभावणे अट्ठ॥३१॥ निःशङ्कितत्वं देशतः सर्वतश्च शङ्कारहितत्वम्, पुननिःकाङ्क्षितत्वं शाक्याद्यन्यदर्शनग्रहणवाञ्छारहितत्वम्, निर्विचिकित्स्यं फलं प्रति सन्देहकरणं विचिकित्सा, निर्गता विचिकित्सा निर्विचिकित्सा, तस्या भावो निर्विचिकित्स्यम्, किमेतस्य तपः प्रभृतिक्लेशस्य फलं वर्तते न वेति लक्षणम् । अथवा विदन्तीति विदः साधवः, तेषां विजुगुप्सा, किमेते मलमलिनदेहाः ? अचित्तपानीयेन देहं प्रक्षालयतां को दोषः स्यादित्यादिनिन्दा तदभावो निर्विजुगुप्स्यम् । प्राकृतार्षत्वात्सूत्रे निर्विचिकित्स्यमिति पाठः । अमूढा दृष्टिरमूढदृष्टिः, ऋद्धिमत्कुतीथिकानां परिव्राजकादीनामृद्धि दृष्ट्वाऽमूढा किमस्माकं दर्शनं ? यत्सर्वथा दरिद्राभिभूतं, इत्यादिमोहरहिता दृष्टिर्बुद्धिरमूढदृष्टिः । यत्परतीथिनां भूयसीमृद्धि दृष्ट्वापि स्वकीयेऽकिञ्चने धर्मे मतेः स्थिरीभावः । अयं चतुर्विधोऽप्याचारोऽन्तरङ्ग उक्तः।
अथ बाह्याचारमाह-उपबृंहणा, दर्शनादिषु गुणवतां प्रशंसा । पुनः स्थिरीकरणम्, धर्मानुष्ठानं प्रति सीदतां धर्मवतां पुरुषाणां साहाय्यकरणेन धर्मे स्थिरीकरणम् । पुनर्वात्सल्यं, साधर्मिकाणां भक्तपानीयैर्भक्तिकरणम् । पुनः प्रभावना च स्वतीर्थोन्नतिकरणम्, एतेऽष्टावाचाराः सम्यक्त्वस्य ज्ञेया इत्यर्थः ॥ ३१ ॥ अथ चारित्रभेदानाह
सामाइयत्थ पढम, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ ३२ ॥