________________
२८, मोक्षमार्गीयाख्यमध्ययनम्]
[११३ अथ धर्मरुचे स्वरूपमाह
जोअस्थिकायधम्म,सुयधम्मंखलु चरित्तधमंच।
सद्दहइ जिणाभिहियं, सो धम्मरुइत्ति नायव्वो ॥२७॥ स धर्मरुचिर्भवतीति ज्ञातव्यम् । यः पुरुषोऽस्तिकायानां धर्मादीनाम्, अर्थाद्धर्मास्तिकायाऽधर्मास्तिकायाकाशास्तिकायादीनां धर्ममसाधारणलक्षणं स्वभावं चलनस्वभावस्थिरसंस्थानावकाशदानादिकं जिनाभिहितं तीर्थङ्करोक्तं श्रद्दधाति पुनर्यो जिनोक्तमेव श्रुतधर्ममङ्गप्रविष्टादिरूपं, च पुनश्चारित्रधर्म सामायिकच्छेदोपस्थापनीय-परिहारशुद्धिसूक्ष्मसम्पराय-यथाख्यातादिकं जिनोक्तं श्रद्दधाति, न तु यो धर्मादीनां लक्षणं पाखण्डिभिरुक्तं श्रद्धत्ते । अत्र हि पृथगुपाधिभेदेन सम्यक्त्वभेदकथनं शिष्यव्युत्पादनार्थम् ।अन्यथा तु निसर्गरुचिरुपदेशरुचिश्च, एतावुभौ भेदावभिगमरुचावेवान्तर्भवतः ॥ २७ ॥ अथ सम्यक्त्वलिङ्गान्याह
परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वा वि।
वावन्नकुदंसणवज्जणा, य सम्मत्तसद्दहणा ॥२८॥ एतत्सम्यक्त्वश्रद्धानं सम्यक्त्वस्य लक्षणं सम्यक्त्ववतः पुरुषस्य चिह्न ज्ञेयम् । किं तल्लक्षणं? परमार्थसंस्तवः, परमाश्च तेऽर्थाश्च परमार्था-जीवादितत्त्वानि, तेषां परमार्थानांजीवादिभावानां संस्तवः स्वरूपज्ञानादुत्पन्नपरिचयः परमार्थसंस्तवः, एतत्प्रथमं सम्यक्त्ववतो लक्षणम् । वाशब्दः पादपूरणे वाऽथवाऽन्यल्लक्षणमिदम् सुदृष्टपरमार्थसेवनम्, सुष्ठ यथास्वरूपं दृष्टाः दर्शिता वा परमार्था जीवादयो यैस्ते सुदृष्टपरमार्था गीतार्थाः, तेषां सेवनं सुदृष्टपरमार्थसेवनम् । बहुश्रुतानामाचार्यादीनां यथाशक्ति वैयावृत्त्यस्य करणम्, एतदपि सम्यक्त्वलक्षणम् । च पुनापन्नकुदर्शनवर्जनम्, व्यापन्न-विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः, यैः पूर्वं सम्यक्त्वं लब्ध्वा सम्यक्त्वघातकर्मोदयात्पुनः सम्यक्त्वं वान्तं, ते व्यापन्नदर्शना निह्नवादयः । तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः । व्यापनदर्शनाश्च कुदर्शनाश्च व्यापन्नकुदर्शनाः तेषा वर्जनं व्यापनदर्शनकुदर्शनवर्जनम् । एतदपि सम्यक्त्वलक्षणं ज्ञेयम् । यः सम्यक्त्ववान् भवति, स निह्नवैः कुलिङ्गिभिश्च परिचयं न करोति ॥२८॥ सम्यक्त्वमाहात्म्यमाह
नथिचरित्तंसम्मत्तविणं, दंसणे उभवियव्वं ।
सम्मत्तचरित्ताई, जुगवं पुव्वं च सम्मत्तं ॥ २९ ॥ हे शिष्य ! सम्यक्त्वविहीनं चारित्रं नास्ति, सम्यक्त्वेन विना चारित्रं नासीत्, न भविष्यति नास्ति च । कोऽर्थः ? यावत्सम्यक्त्वं नोत्पद्यते तावच्चारित्रं न स्यात् । तु -