SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [ उत्तराध्ययनसूत्रे - भाग - २ सोऽभिगमरुचिर्भवति । स इति कः ? येन श्रुतज्ञानमर्थतोऽर्थमाश्रित्य दृष्टं, ये श्रुतज्ञानस्यार्थोऽधिगतो भवति । किं तत् श्रुतज्ञानमित्याह-एकादशाङ्गान्याचाराङ्गादीनि, तथा प्रकीर्णकमिति जातित्वादेकवचनम् । प्रकीर्णकान्युत्तराध्ययनादीनि दृष्टिवादः परिकर्मसूत्रादिः, चशब्दादुपाङ्गान्युपपातिकादीनि सर्वाणि येनार्थतो ज्ञातानि भवन्ति, सोऽभिगमरुचिर्भवतीत्यर्थः ॥ २३ ॥ अथ विस्ताररुचेः स्वरूपमाह ११२ ] दव्वाण सव्वभावा, सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहि नयविहीहि य, वित्थाररुइत्ति नायव्व ॥ २४ ॥ स विस्ताररुचिरिति ज्ञातव्यः । स इति कः ? यस्य पुरुषस्य द्रव्याणां धर्मास्तिकायादीनां सर्वे भावाः, एकत्वपृथक्त्वसंयोगविभागादिसमस्तपर्यायाः सर्वप्रमाणै: प्रत्यक्षाsनुमानोपमानाऽऽगमैश्च पुनः सर्वैर्नयविधिभिर्नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र - शब्द- समभिरूढैवंभूतैरुपलब्धा यथारूपेण ज्ञाताः सन्ति, स विस्ताररुचिर्विज्ञेय इत्यर्थः ॥ २४ ॥ अथ क्रियारुचिस्वरूपमाह दंसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु । जो किरिया भावरुई, सो खलु किरियारुई नाम ॥ २५ ॥ स खलु निश्चयेन क्रियारुचिर्नाम प्रसिद्धो ज्ञेयः । स इति कः ? यः पुरुषो दर्शनज्ञानचारित्रे, तथा तपोविनये क्रियाभावरुचिर्भवति, तथा सत्यसमिति गुप्तिषु क्रियाभावरुचिर्भवति । दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रम्, तस्मिन् । तपांसि च विनयाश्च तेषां समाहारस्तपोविनयम्, तस्मिंस्तपोविनये । तपस्सु द्वादशविधेषु, तथा विनयेष्वाचार्यादीनां भक्तिषु तथा सत्यायाः समितयः सत्यसमितयस्तासु सत्यसमितिषु । क्रियायां दर्शनज्ञानचारित्रतपोविनयसत्यसमितीनामाराधनानुष्ठानविधौ भावेन रुचिर्यस्य स क्रियाभावरुचिः ॥२५॥ अथ सङ्क्षेपरुचिस्वरूपमाह अभिग्गाहियकुदिट्ठी, संखेवरुड़ त्ति होइ नायव्वो । अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु ॥ २६ ॥ स सङ्क्षेपरुचिर्भवतीति ज्ञातव्यः । स इति कः ? यो ऽनभिगृहीतकुदृष्टिः, अनभिगृहीताऽनङ्गीकृता कुदृष्टिबद्धमतादिरूपा येन सोऽनभिगृहीतकुदृष्टिः, येन मिथ्यात्विनां कुमतिश्चाङ्गीकृता नास्तीत्यर्थः । पुनर्यः प्रवचने - जिनोक्तसिद्धान्तेऽविशारदोऽचतुरः, पुनर्यस्तु शेषेषु मतेष्वपि कपिलादिमतेष्वपि कुशलो नास्ति, स चैतादृशः पुरुषः सङ्क्षेपरुचिः स्यात् ॥ ५६ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy