________________
२८, मोक्षमार्गीयाख्यमध्ययनम्]
[१११ अथाज्ञारुचे स्वरूपमाह
रागो दोसो मोहो, अन्नाणं जस्स अवगयं होड़।
आणाए रोयंतो, सो खलु आणारुई नाम ॥२०॥ स खलु निश्चयेनाज्ञारुचिर्नामेति प्रसिद्धो भवति । स इति कः ? यस्य रागः स्नेहः, द्वेषोऽप्रीतिः, मोहः शेषमोहनीयप्रकृतयः, अज्ञानं मिथ्यात्वरूपम्, एतत्सर्वं नष्टं भवति, अस्य देशतोऽपगतं गम्यते, न सर्वतः अपगतशब्दस्य प्रत्येकं सम्बन्धः । यस्य रागो देशतोऽपगतः, यस्य द्वेषोऽपि देशतोऽपगतः, यस्य मोहोऽपि देशतोऽपगतः, यस्याज्ञानं देशतोऽपगतं, एतेषामपगमादाज्ञया आचार्याधुपदेशेन रोचमानजीवाजीवादितत्त्वं तथेति प्रतिपद्यमानो यो भवति, स आज्ञारुचिरित्यर्थः । अत्र माषतुषदृष्टान्तः, 'मा रूस, मा तुसे' ति स्थाने माषतुषेति दृष्टान्तोऽस्ति ॥२०॥
जो सुत्तमहिज्जतो, सुएण ओगाहई उ सम्मत्तं ।
अंगेण बाहिरेण य, सो सुत्तरुइत्ति नायव्वो ॥२१॥ स सूत्ररुचितिव्यः, स इति कः ? यः सूत्रमागममधीयानः पठन् सन् सूत्रेणागमेन सम्यक्त्वमवगाहते प्राप्नोति । कीदृशेन सूत्रेण ? अङ्गेनाचाराङ्गादिना, अथवा 'बाहिरेण' बाह्येनानङ्गप्रविष्टेनोत्तराध्ययनादिना सम्यक्त्वं गोविन्दवाचकवल्लभते,ससूत्ररुचिर्जेयः॥२॥ अथ बीजरुचेः स्वरूपमाह
एगेण अणेगाई, पयाई जो पसरइ उ सम्मत्तं । .
उदएव्व तिल्लबिंदू, सो बीयरुइत्ति नायव्वो ॥२२॥ स बीजरुचिरिति ज्ञातव्यः, स इति कः ? यः ‘सम्मत्तं' इति सम्यक्त्ववान्, गुणगुणिनोरभेदोपचारात् सम्यक्त्वशब्देन सम्यक्त्वधार्यात्मैव गृह्यते, तस्माद्यः सम्यक्त्वी एकेन पदेन जीवादिना, अनेकेषु बहुषु पदेषु जीवादिषु तु निश्चयेन प्रसरति, व्यापकबुद्धिमत्त्वेन जानातीत्यर्थः । कस्मिन् क इव ? उदके तैलबिन्दुरिव, यथोदकस्यैकदेशतो गतोऽपि तैलबिन्दुः सर्वमुदकमाक्रामति, तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमादशेषेषु तत्त्वेषुरुचिमान् भवति, स एवंविधो बीजरुचितिव्य इत्यर्थः । यथा बीजमेकमपि क्रमेणानेकबीजानां जनकं स्यात्, तथास्यापि रुचिविषयभेदतो रुच्यन्तराणां जनयित्री स्यादिति भावः ॥२२॥ अथाभिगमरुचेः स्वरूपमाह
सो होइ अभिगमरुई, सुअनाणं जेण अत्थओ दिटुं। एक्कारसअंगाई, पईन्नगं दिट्ठिवाओ य ॥ २३ ॥