________________
११०]
[उत्तराध्ययनसूत्रे-भाग-२ रुचिर्यस्य स बीजरुचिः, बीजं ोकमप्यनेकार्थप्रबोधकं वचनं, तेन रुचिर्यस्येति बीजरुचिः ५ ।अभिगमरुचिः षष्ठः, अभिगमेन ज्ञानेन रुचिर्यस्य सोऽभिगमरुचिः ६ । सप्तमो विस्ताररुचिः, विस्तारेण रुचिर्यस्य स विस्ताररुचिः ७ । तथा क्रियारूचिः, क्रियया धर्मानुष्ठानेन रुचिर्यस्य स क्रियारुचिरष्टमो ज्ञेयः ८ । तथा सक्षेपरुचिः, सक्षेपेण-सङ्ग्रहेण रुचिर्यस्य स सङ्क्षपरुचिर्नवमः ९ । तथा धर्मेण श्रुतधर्मेणरुचिर्यस्य स धर्मरुचिः, श्रुतधर्माभ्यासरुचिर्दशमः १० । यद्यपि सम्यक्त्वस्य जीवाद्भेदो नास्ति, जीवस्य स्वरूपं सम्यक्त्वम्, तथापि लक्ष्य-लक्षणयोर्गुणगुणिनोः कथनमात्रेण कथञ्चिद्भेदोऽप्यस्ति ॥ १६ ॥ अथ सम्यक्त्वभेदान्नाममात्रेणोक्त्वा विस्तरेणाह
भूयत्थेणाहिगया, जीवाजीवा य पुण्णपावंच ।
सहसंमुइयासवसंवरो य, रोएइ उनिसग्गो॥१७॥ स निसर्गरुचिः कथ्यते, यत्तदोनित्याभिसम्बन्धात्, स इति कः ? येन जीवा अजीवाश्च, पुण्यं पापं च, एते पूर्वोक्ता भावा भूतार्थेन-सत्यार्थेनाधिगताः, भूतः सद्भूतोऽर्थो विषयो यस्य तद् भूतार्थं ज्ञानमुच्यते । तेनामी जीवादयो भावाः सद्भूताः सन्तीति कृत्वा गृहीताः । च पुनः पूर्वोक्ता जीवाजीवाः, पुण्यपापं च, पुनराश्रवसंवरौ, चशब्दाद् बन्धमोक्षौ, इत्यादि नवापि भावान् सह संमत्या सहात्मना सङ्गता मतिः सहसंमतिस्तथा सह संमत्या-स्वबुद्धया परोपदेशं विना जातिस्मृत्यादिविशदबुद्धया यस्मै रोचन्ते स निसर्गरुचिः सम्यक्त्ववानुच्यते ॥ १७ ॥ अमुमेवार्थं पुनराह
जो जिणुट्ठिभावे, चउव्विहे सद्दहाइ सयमेव ।
एमेव नन्नहत्ति य, स निसग्गरुइत्ति नायव्वो ॥१८॥ स निसर्गरुचितिव्यः, स इति कः ? यश्चतुर्विधान् दव्यक्षेत्रकालभावरूपान् जिनोद्दिष्टान् भावान्-जिनोक्तान् पदार्थान् स्वयमेव परोपदेशं विनैव श्रद्दधाति मनसि धारयति, पुनर्यो जिनोक्तेषु तत्त्वेष्वेवमेवैतत्, यथा जिनैदृष्टं जीवादि तत्तथैवेति, नान्यथेति बुद्धि कुरुते, स निसर्गरुचिरुच्यते ॥ १८ ॥ अथोपदेशरुचेः स्वरूपमाह
एए चेव हु भावे, उवइटे जो परेण सद्दहई ।
छउमत्थेण जिणेण य, उवएसरुइ त्ति नायव्यो ॥१९॥ स उपदेशरुचिरिति ज्ञातव्यः, स इति कः ? य एतांश्चैव भावान् जीवाजीवादीन् परेणान्येन छद्मस्थेन, वाऽथवा जिनेन केवलिना तीर्थकरेणोपदिष्टान् श्रद्दधाति, हुशब्दो निश्चये, चेवशब्दः पादपूरणे ॥ १९ ॥