________________
११८]
[ उत्तराध्ययनसूत्रे-भाग-२ १४, कालपडिलेहणया १५, पायच्छित्तकरणे १६,खमावणया १७, सज्झाए १८, वायणया १९, पडिपुच्छणया २०, परियट्टणया २१, अणुप्पेहा २२, धम्मकहा २३, सुयस्स आराहणया २४, एगग्गमणसंनिवेसणया २५, संजमे २६, तवे २७, वोदाणे २८, सुहसाए २९, अप्पडिबद्धया ३०, विवित्तसयणासणसेवणया ३१, विणियट्टणया ३२, संभोगपच्चक्खाणे ३३, उवहिपच्चक्खाणे ३४, आहारपच्चक्खाणे ३५, कसायपच्चक्खाणे ३६, जोगपच्चक्खाणे ३७, सरीरपच्चक्खाणे ३८, सहायपच्चक्खाणे ३९, भत्तपच्चक्खाणे ४०, सब्भावपच्चक्खाणे ४१, पडिरूवया ४२, वेयावच्चे ४३, सव्वगुणसंपण्णया ४४, वीयरागया ४५, खंती ४६, मुत्ती ४७, मद्दवे ४८, अज्जवे ४९, भावसच्चे ५०, करणसच्चे ५१, जोगसच्चे ५२, मणगुत्तया ५३, वयगुत्तया ५४, कायगुत्तया ५५, मणसमाहारणया ५६, वयसमाहारणया ५७, कायसमाहारणया ५८, नाणसंपन्नया ५९, दंसणसंपन्नया ६०, चरित्तसंपन्नया ६१, सोइंदियनिग्गहे ६२, चक्खिदियनिग्गहे ६३, घाणिदियनिग्गहे ६४, जिब्भेदियनिग्गहे ६५, फासिदियनिग्गहे ६६, कोहविजये ६७, माणविजये ६८, मायाविजये ६९, लोहविजये ७०, पेज्जदोसमिच्छादसणविजये ७१, सेलेसी ७२, अक्कम्मया ७३, ॥३॥इति सूत्रम् ॥
एतस्य सम्यक्त्वपराक्रमाध्ययनस्य श्रीमहावीरेण यथानुक्रममर्थो व्याख्यायते तद्यथासंवेगो मोक्षाभिलाषः १, निर्वेदः संसाराद्विरक्तता २, धर्मे श्रद्धा-धर्मे रुचिः ३, गुरुस्तत्त्वोपदेष्टा, तस्य गुरोः, साधर्मिणः-समानधर्मकर्तुश्च शुश्रूषणा - सेवा ४, आलोचना गुरोरग्रे पापानां प्रकाशनं ५, निन्दना आत्मसाक्षिकमात्मनो निन्दा ६, गर्हणा अपरलोकानां पुरतः स्वदोषप्रकाशनं ७, सामायिकं शत्रौ मित्रे साम्यं ८, चतुर्विंशतिस्तवो 'लोगस्सुज्जोयगरे' इत्यादिचतुर्विंशतिजिननामपठनं ९, वन्दनं द्वादशावर्त्तवन्दनेन गुरोर्वन्दना १०, प्रतिक्रमणं पापानिवर्तनं ११, कायोत्सर्गोऽतीचारशुद्धयर्थं कायस्य व्युत्सर्जनं कायममत्ववर्जनं १२, प्रत्याख्यानं मूलगुणोत्तरगुणधारणं १३, स्तवस्तुतिमङ्गलं, स्तवः शक्रस्तवपाठः, स्तुतिरूर्वीभूय जघन्येन चतुष्टयस्तुतिकथनं, मध्यमेनाष्टस्तुतिकथनं, उत्कृष्टेन १०८ स्तुति कथनम् । स्तवश्च स्तुतयश्च स्तवस्तुतयः, स्तवस्तुतय एव मङ्गलं स्तवस्तुतिमङ्गलम् १४, कालप्रतिलेखना, कालस्य व्याघातिकप्रभृतिकालचतुष्टयस्य प्रतिलेखना प्ररूपणा कालग्रहणरूपा कालप्रतिलेखना १५, प्रायश्चित्तकरणं, लग्नस्य पापस्य निवृत्त्यर्थं तपसः करणम् १६, क्षमापना अपराधक्षामणं १७, स्वाध्यायः पञ्चविधो वाचनादिकः १८, वाचना