SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०४] [ उत्तराध्ययनसूत्रे-भाग-२ जारिसा मम सीसाओ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं ॥ १६ ॥ ___ पुनः स आचार्यश्चिन्तयति, यादृशा मम शिष्याः सन्ति, तादृशा गलिगईभा भवन्ति । अत्र गलिगभदृष्टान्तेन शिष्याणामत्यन्तनिन्दा सूचिता । ते हि गलिगईभाः स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, तेषां तथैव कालो याति । ततः गर्गाचार्यो गलिगभसदृशान् कुशिष्यांस्त्यक्त्वा दृढं यथास्यात्तथा तपो बाह्यमभ्यन्तरं च प्रगृह्णाति, प्रकर्षणाङ्गीकरोति । तु शब्दःपादपूरणे । यदैतान् कुशिष्यानहं न त्यक्ष्यामि, तदा मदीयः कालः क्लेशे एव प्रयास्यतीत्याचार्यो विचारयति ॥१६॥ मिउ मद्दवसंपन्ने, गंभीरे सुसमाहिए । विहरइ महिमहप्पा, सीलभूएण अप्पणा ॥१७॥त्तिबेमि ॥ स गार्ग्य आचार्यस्तदेदृशः सन् महीं-पृथिवीं ग्रामानुग्राम विहरति । कीदृशः सः? मृदुर्बहिर्वृत्त्या विनयवान्, पुनः कीदृशः ? मार्दवसम्पन्नोऽन्तःकरणेऽपि कोमलतायुक्तः, पुनः कीदृशः? गम्भीरोऽलब्धमध्यः, पुनः कीदृशः ? सुसमाहितः, सुतरामतिशयेन समाधिसहितः, पुनः कीदृशः ? शीलभूतेनात्मनोपलक्षितः, शीलं चारित्रं भूतः प्राप्तो यः स शीलभूतः, तेन शीलभूतेन, शीलयुक्तेनात्मना सहितः, यतो हि खलुङ्कत्वं-कुशिष्यत्वं, तत्त्वविनीतत्त्वं, तच्च स्वस्य गुरोश्च दोषहेतुरस्ति, अतोऽविनीतत्त्वं त्यक्त्वा विनीतत्वमङ्गीकर्तव्यमिति भावः । इत्यहं ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥ १७ ॥ इति खलुङ्कीयाख्यं सप्तविंशतितममध्ययनं सम्पूर्णम् ॥ २७ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां खलुकीयाख्यं सप्तविंशतितममध्ययनं सम्पूर्णम् ॥२७॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy