________________
२८ मोक्षमार्गीयाख्यमध्ययनम् ॥
पूर्वस्मिन्नध्ययनेऽशठस्य मोक्षमार्गप्राप्तिः स्यात्, अतो मोक्षमार्गप्राप्तिविधायकमध्ययनमष्टाविंशं प्रारभ्यते
मोक्खमग्गगइं तच्छं, सुणेह जिणभासियं ।
चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥ १ ॥
श्रीसुधर्मास्वामी जम्बूस्वाम्यादीन् शिष्यान् वदति भो मुनयः ! मोक्षमार्गगतिं यूयं श्रृणुत । मोक्षोऽष्टकर्मणां नाशस्तस्य मार्गों ज्ञानादिर्मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्तां मोक्षमार्गगतिं यूयं श्रृणुत । कीदृशीं मोक्षमार्गगतिं ? जिनभाषितांजिनोक्ताम्, पुनः कीदृशीं ? ' तच्चं ' इति तथ्यामवितथां सत्यां तत्त्वरूपाम्, पुनः कीदृशीं ? चतुर्भिः कारणैः संयुक्तां चतुष्कारणसंयुक्ताम्, पुनः कीदृशीं ? ज्ञानदर्शनलक्षणां, ज्ञानं च दर्शनं च लक्षणं स्वरूपं यस्याः सा ज्ञानदर्शनलक्षणा, ताम् ॥ १ ॥
अथ तानि चतुष्कारणान्याह -
नाणं च दंसणं चेव, चरितं च तवो तहा ।
एस मत्तिपन्नत्तो, जिणेहिं वरदंसिहिं ॥ २ ॥
एष चतुष्कारणरूपो मोक्षमार्गो जिनैः केवलिभिस्तीर्थकरैश्च प्रज्ञप्तः कथितः, कीदृशैर्जिनैः ? वरदशिभिः, वरमव्यभिचारित्वेन वस्तुस्वरूपं द्रष्टुं शीलं येषां ते वरदर्शिनः तैर्वरदशिभिः, सम्यग्ज्ञानदर्शनवद्भिरित्यर्थः । अथ चतुर्णां कारणानां नामानि - प्रथमं कारणं ज्ञानं यथास्वरूपस्थानां वस्तूनां विशेषेणावबोधो ज्ञानम्, ज्ञायतेऽनेनेति ज्ञानम्, तदिह सम्यग्ज्ञानमुच्यते । च पुनर्द्वितीयं कारणं दर्शनं, वस्तूनां यथास्वरूपस्थानां सामान्यप्रकारेणावबोधो दर्शनम्, दृश्यतेऽनेनेति दर्शनम्, तदप्यत्र सम्यग्दर्शनमुच्यते । चैवशब्दः पादपूरणे । विशेषावबोधात्मकं ज्ञानं, सामान्यावबोधात्मकं दर्शनमिति ज्ञानदर्शनयोर्भेदः । च पुनस्तृतीयं कारणं चारित्रम् चर्यते प्राप्यते मोक्षोऽनेनेति चारित्रं संयमरूपम्, चरित्रमेव चारित्रम्, तदिह सम्यक्चारित्रमेव ज्ञेयम् । तथा चतुर्थं तपः कारणम्, तप्यते कर्मवर्गोऽनेनेति तपः, येन कर्मवर्गः प्रज्वलति तत्तपो द्वादशविधम् । अत्र तपसश्चारित्रात्पृथगुपादानं कर्मक्षये तपसोऽसाधारणकारणत्वख्यापनार्थम् ॥ २ ॥
एतदनुवादद्वारेण फलमाह
नाणं च दंसणं चेव, चरित्तं च तवो तहा ।
एयमग्गमणुपत्ता, जीवा गच्छंति सुग्गइं ॥ ३ ॥