________________
२७, खलुङ्कीयाख्यमध्ययनम्]
[१०३ पेसिया पलिउंचंति, ते पलियंति समंतओ।
रायवेढेि व मन्नंता, करिति भिउडिं मुहे ॥ १३ ॥ पुनस्ते कुशिष्या आचार्येण कुत्रचिद् गृहस्थगृहे आहाराद्यर्थ, गृहस्थस्याकारणाय वा प्रेषिताः सन्तः 'पलिउंचिं' त्ति अपनिझुवन्त्यपलपन्ति । वयं भवद्भिः कुत्र मुक्ताः ? अस्माकं स न स्मरति, अथवा गृहस्थेन दत्तं मिष्टाहारादिकं गोपयन्ति, अथवोक्तं कार्यं न निष्पादयन्ति । अनुत्पादितमप्युत्पादितमिति वदन्ति, उत्पादितं चाऽनुत्पादितं वदन्ति । अथवा यत्र भवद्भिर्वयं प्रेषिताः, स गृही न कश्चिद् दृष्टः, इति पृष्टाः सन्तोऽपलपन्ति । पुनस्ते कुशिष्याः समन्ततः सर्वासु दिक्षु परियन्ति-पर्यटन्ति, गुरुपाचँ कदाचित्रायान्ति, नोपविशन्ति । कदाचिद्वयं गुरूणां पार्श्वे स्थास्यामस्तदास्माकं किञ्चित्कार्यं कथयिष्यन्ति, इति मत्वान्यत्र भ्रमन्तीति भावः । कदाचित्कस्मिन् कार्ये गुरुभिः प्रेषितास्तदा राजवेष्टिमिव मन्यमानास्तत्कार्यं कुर्वन्ति । नृपस्य 'वेष्टिः पतितेति जानन्तो मुखे भृकुटी भ्रूभङ्गरचनां कुर्वन्ति अन्यामपीpसूचिकां चेष्टां कुर्वन्तीति भावः ॥ १३ ॥ .
वाइया संगहिया चेव, भत्तपाणेण पोसिया ।
जायपक्खा जहा हंसा, पक्कमंति दिसोदिसि ॥१४॥ पुनस्ते कुशिष्या गुरुभिर्वाचिताः सूत्रं ग्राहिताः, शास्त्राभ्यासं कारयित्वा पण्डितीकृताः, पुनः सङ्ग्रहीताः सम्यक् स्वनिश्रायां रक्षिताः, पुनर्भक्तपानैः पोषिताः पुष्टि नीताः, चकारद्दीक्षिताः स्वयमेवोपस्थापिताः, पश्चात्ते कार्ये सृते दिशि दिशि प्रक्रमन्ति, यथेच्छं विहरन्ति ते कुशिष्याः । के इव ? यथा जातपक्षा हंसाः, जाताः पक्षास्तनूरुहाणि येषां ते जातपक्षा हंसा इव । यथोत्पन्नपक्षा हंसाः स्वजननी जनकं च त्यक्त्वा दशसु दिक्षु व्रजन्ति, तथा ते कुशिष्या अपीति भावः ॥१४॥
अह सारही विचिंतेइ, खलुंकेहि समं गओ ।
किं मज्झ दुट्ठसीसेहि, अप्पा मे अवसीयई ॥ १५ ॥ अथानन्तरंसारथिर्गर्गाचार्यो धर्मयानस्य प्रेरकश्चेतसि चिन्तयति, खलुकैर्गलिवृषभसदृशैः कुशिष्यैः समं गतः-सहितः, किं चिन्तयति ? एभिर्दष्टशिष्यैः प्रेरितैः सद्भिः 'कि मज्झ' इति किमैहिकामुष्मिकफलं वा मम प्रयोजनं सिद्धयति ? दुष्टशिष्यैः प्रेरितैः केवलं 'मे' ममात्मैवाऽवसीदति, तेषां प्रेरणात्स्वकृत्यहानिरेव भविष्यति, नान्यत्किमपि फलम् । तत एतेषां कुशिष्याणां त्यागेन मयोद्यतविहारिणैव भाव्यमिति चिन्तयति ॥१५॥ १ मजूरी आप्या विना जबरदस्ती करावातु काम।