________________
१०२]
[उत्तराध्ययनसूत्रे-भाग-२ इड्डिगारवए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ ९ ॥ भिक्खालसिए एगे, एगे ओमाणभीरुए थद्धे।
एगं च अणुसासम्मि, हेऊहिं कारणेहि य ॥१०॥ युग्मम् ॥ एकः कश्चिद् ऋद्धिगौरविकः, ऋद्धया गौरवमस्यास्तीति ऋद्धिगौरविकः मम श्राद्धा आढ्याः, मम श्राद्धा वश्याः, ममोपकरणं वस्त्रपात्रादि समीचीनम, इत्यात्मानं बहमानरूपं मनुते सऋद्धिगौरविक उच्यते । एतादृशो गुर्वादेशे न प्रवर्तते । एकः कश्चित्पुनरत्र रसगौरविक आहारादिषु रसलोलुपः एतादृशो हिग्लानाद्याहारदानतपसोर्न प्रवर्तते । एकः कश्चित्कुशिष्यः सातागौरविको भवति, सातागौरवे भवः सातागौरविकः, एतादृशो हि विहारं कर्तुं न शक्नोति । एकः कश्चित्कुशिष्यः सुचिरक्रोधनश्चिरं क्रोधकरणशीलः, एतादृशो हि तपःक्रियानुष्ठानकरणे योग्यो न भवति ॥९॥एकः कश्चिद्भिक्षालसिको भिक्षायामालस्ययुक्तः, तादृशो हि गोचरीपरीषहसहनयोग्यो न भवति ।एकः कश्चिदपमानभीरुर्भवति, अपमानाद्भीरुरपमानभीरुः, एतादृशो हि यस्य तस्य गृहे न प्रविशति । एकः कश्चित् स्तब्धोऽहङ्कारी भवति, एतादृशो निजकुग्रहाद्विनयं कर्तुं न शक्नोति । एकं कुशिष्यं प्रति शिक्षादाने आचार्य एवं विचारयति, हेतुभिः कारणैरहमेनं कुशिष्यमनुशास्मि, कथमित्यध्याहारः, कथं शिक्षयिष्यामि ? आचार्य इति चिन्तापरो भवतीति भावः ॥१०॥
सोवि अंतरभासिल्लो, दोसमेव पकुव्वई ।
आयरियाणं तं वयणं, पडिकुलेइ अभिक्खणं ॥११॥ सोऽपि कुशिष्य आचार्येण शिक्षितः सन्नन्तरभाषावान्, गुरुवचनान्तराले एव स्वाभिमतभाषकः । पुनर्दोषमेवापराधमेव प्रकरोति, आचार्यस्य शिक्षायां दोषमेव प्रकाशयति, अपगुणग्राही भवतीत्यर्थः । पुनः स कुशिष्य आचार्याणां यद्वचनं तद्वचनं वारंवारं प्रतिकूलयति, सन्मुखं जल्पति । यदाचार्याः किञ्चिच्छिक्षावचनं वदन्ति, तदा सोऽभीक्ष्णं - मुहुरेवं वदति, किं मां यूयं वदत ? यूयमेव किं न कुरुथेत्यर्थः ॥ ११ ॥
न सा ममं वियाणाइ, नवि सा मज्झ दाहिई।
निग्गया होहित्ति मन्ने, साहु अनोत्थ वच्चउ ॥१२॥ तदाऽऽचार्यः कञ्चित्कुशिष्यं प्रति वदति-भो शिष्य ! अमुकस्य गृहस्थस्य गृहान्मह्यमाहाराद्यानीय देहि ? तदा स कुशिष्यो वदति, सा श्राद्धी 'मम' इति मां न विजानाति, मां नोपलक्षति, सा श्राद्धी मह्यमाहारादिकं न दास्यति । अथवा स गुरुं प्रत्येवं वदति-हे गुरो ! अहमेवं मन्ये सा श्राद्धी निर्गता भविष्यति, स्वगृहादपरत्रेदानीं गता भविष्यति । अथवान्यः साधुरस्मिन् कार्ये व्रजतु, अहं न व्रजामीत्यर्थः ॥ १२ ॥