________________
२७, खलुङ्कीयाख्यमध्ययनम् ]
[ १०१
एवैकं गलिवृषभमभीक्ष्णं वारंवारं विध्यति, प्राजनस्याऽऽरया व्यथति । एको गलिवृषभः समिलां युगकीलिकां भनक्ति, एकः पुनर्गलिवृषभ उत्पथमार्गं प्रस्थितो भवति ॥ ४ ॥ एगो पडइ पासेणं, निवेस निवज्जई ।
उक्कुद्दइ उप्फिडई, सढे बालगवीं वए ॥ ५॥
एको गलिस्ताडितः सन् पार्श्वेन वामदक्षिणभागेन पतति, अन्यः कश्चिद् भूमौ निविशते - नीचैस्तिष्ठति । एकः कश्चिन्निपद्यते स्वपिति, प्रलम्बो भूत्वा शेते, एक उत्कूर्दत्युच्छ्लति, च दर्दुरवच्चतुष्फालो भवति । अन्य: शठो भवति, धूर्तत्वमाचरति । अन्य: कश्चिद्गलिर्बलीवर्दो बालगव - लघिष्टां धेनुं दृष्ट्वा तामनुव्रजति ॥ ५ ॥
माई मुद्धेण पडई, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठइ, वेगेण य पहावई ॥ ६॥
एको मायी-मायावान् भूत्वा मस्तकं भूमौ निक्षिप्य पतति । एकः कश्चित् क्रुद्धः सन् प्रतिपथं प्रतिकूलः पन्था प्रतिपथस्तं प्रतिपथम् अग्रेतनमार्गं त्यक्त्वा पश्चान्मार्ग गच्छति । एकः कश्चिन्मृतलक्षेण तिष्ठति, मृतस्य लक्षणं कृत्वा तिष्ठति, निश्चेष्टो भूत्वा पततीत्यर्थः । यदा च पुनः कथञ्चित्सज्जीकृत्योत्थापितस्तदा वेगेन प्रधावति, अनया रीत्या धावति, यथा पश्चात्स्वामी ग्रहीतुं न शक्नोति ॥ ६ ॥
छिन्नाले छिंदई सेल्लि, दुद्दंते भंजई जुगं ।
सेविय सुस्सुयाइत्ता, उज्जहित्ता पलायई ॥ ७ ॥
एकश्छिन्नालो-दुष्टजातीयः कश्चित् 'सेल्लिं' इति रश्मि - बन्धनरज्जुं छिनत्ति बलात् त्रोटयति, अन्यो दुर्दान्तो- दमितुमशक्यो युगं - जूसरं भनक्ति । 'सेवि' इति स च दुष्टो बलीवर्दः सुतरामतिशयेन सूत्कृत्यात्यन्तं फूत्कारं कृत्वा, उत्प्राबल्येन 'उज्जहित्ता' इति स्वामिनं शकटं वोन्मार्गे लात्वा कुत्रचिद्विषमप्रदेशे मुक्त्वा स्वयं पलायते ॥ ७ ॥
खलुंका जारिसा जोज्जा, दुस्सीसा वि हु तारिसा । जोइया धम्मजाणंमि, भज्जंति धिइदुब्बला ॥ ८ ॥
गार्ग्यनामाचार्य एवं वदति - भो मुनयः ! यथा लोके खलुङ्का अत्रोक्तलक्षणा गलिवृषभा योज्या रथस्याग्रे धुरि नोत्कृताः सन्तो यादृशा भवन्ति, रथारोहकस्याऽसमाधिक्लेशकरा भवन्ति, 'हु' इति निश्चयेनाचार्यस्यापि दुःशिष्या दुष्टाः शिष्या विनयरहिताः कुशिष्यास्तादृशा भवन्ति । धर्मयाने मुक्तिनगरप्रापकत्वेन संयमरथे योजिता व्यापारिता भज्यन्ते, संयमक्रियानुष्ठानात् स्खलन्ते, सम्यग् न प्रवर्तन्ते इत्यर्थः । कीदृशास्ते ? धृतिदुर्बला धैर्येण दुर्बला निर्बलचित्ताः, धर्मेऽस्थिरा इत्यर्थः ॥ ८ ॥