________________
॥ २७ खलुङ्कीयाख्यमध्ययनम् ॥
सामाचार्यशठेन पाल्यते, तेन शठस्य विपक्षभूताया अशठतायाः कथनेनाऽशठत्वज्ञापनार्थं खलुङ्कीयाख्यमध्ययनं कथ्यते
थेरे गहरे गग्गे, मुणी आसि विसारए । आइन्ने गणिभावंमि, समाहिं पडिसंधए ॥ १ ॥
गायों नाम गणधरो मुनिः स्थविर आसीत्, गणस्य गच्छस्य धारकत्वाद्गणधरः, धर्मे स्थिरीकरणत्वात्स्थविर: गर्गगोत्रोत्पन्नत्वाद्गार्ग्यः, मनुते सर्वसावद्यविरमणस्य प्रतिज्ञां कुरुते इति मुनिः, पुनः कीदृशो गार्ग्यः ? विशारदः- सर्वशास्त्रनिपुणः, पुनः कीदृशः सः ? आकीर्ण - आचार्यगुणैर्व्याप्तः, पुनः कीदृशः सः ? गणिभावे - आचार्यत्वे स्थितः, पुनः स गार्ग्यो गणधरः समाधिं धत्ते, कुशिष्यैस्त्रोटितं ज्ञानदर्शनचारित्राणां समाधिं प्रतिसन्धय-तीत्यर्थः ॥ १ ॥
वहणे वहमाणस्स, कंतारं अइवत्तई ।
जोए य वहमाणस्स, संसारे अइवत्तई ॥ २ ॥
यथा यथा वाहने - शकटादौ विनीततुरगवृषभादीन् 'वहमाणस्स' इत्युह्यमानस्य सारथ्यादेः कान्तारमरण्यमतिवर्तते सम्पूर्णं भवति, तथा योगे संयमव्यापारे सुशिष्यान् वाहयत आचार्यस्य संसारोऽतिवर्तते, शिष्याणां विनीतत्वं दृष्ट्वा स्वयं समाधिमान् जायते, शिष्यास्तु विनीतत्वेन स्वयं संसारमुल्लङ्घयन्ते एव । एवमुभयोर्विनीतशिष्यसदाचार्ययोर्योगः सम्बन्धः संसारच्छेदकर इति भावः ॥ २ ॥
खलुंके जो उ जोएइ, विहम्माणो किलिस्सई ।
असमाहिं च वेएई, तोत्तओ य से भज्जई ॥ ३॥
यस्तु सारथिः खलुङ्कान् -गलिवृषभान् योजयति, रथे स्थापयति, स सारथिः 'विहम्माणो' इति विशेषेण तान् खलुङ्कान् घ्नन्-प्राजनकेन ताडयन् सङ्क्लिश्यते, सङ्क्लेशं प्राप्नोति । अत एवाऽसमाधिमसातां वेदयते प्राप्नोति । च पुनस्तस्य खलुङ्कवृषभयोजयितुः पुरुषस्य तोत्रकः - प्राजनको भज्यते । खलुङ्कानामतिकुट्टनात्प्राजनको भज्यते इति भावः ॥३॥
एगं डसइ पुच्छंमि, एगं विधइऽभिक्खणं ।
एगं भंजइ समिलं, एगो उप्पहपट्टिओ ॥ ४ ॥
पुनः खलुङ्कवृषभस्वामी - रथारोहको रुष्टः सन् तं खलुङ्कं पुच्छे दन्तैर्दशति, एकः स