________________
२६, सामाचार्याख्यमध्ययनम् ]
[९९ अद्याहं किं तपो नमस्कारसहितादियावत्षण्मासोपवासादिकं प्रतिपद्ये ? एवं तत्र कायोत्सर्गे चिन्तयेत् । भगवान श्रीमहावीरः षण्मासं यावन्निरशनो विहृतवान् । तत्किमहमपि स्थातुं समर्थो भवामि ? न वेति ? एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत् । ततः कायोत्सर्ग पारयित्वा गुरुं द्वादशावर्त्तवन्दनेन वन्दयेत् ॥५१॥
पारियकाउसग्गो, वंदित्ताण तओ गुरुं।
तवं संपडिवज्जिज्जा, करिज्ज सिद्धाण संथवं ॥५२॥ ततः पारितकायोत्सर्गः सन् गुरुं वन्दित्वा, द्वादशावर्त्तवन्दनेन वन्दित्वा तपः सम्प्रतिपद्य यथाशक्त्युपवासादिकमङ्गीकृत्य सिद्धानां संस्तवं दैवसिकप्रतिक्रमणवत्प्रान्ते वर्धमानस्तुतित्रयरूपं पाठं कुर्यात् । तदनु चैत्यसद्भावे तद्वन्दनं कार्यं शक्रस्तवपाठेन, पश्चात्सर्वा क्रिया यथायोग्यं कर्तव्या ॥५२॥
अथाध्ययनोपसंहारमाहएसा सामाचारी, समासेण वियाहिया । जं चरित्ता बहुजीवा, तिण्णा संसारसागरं ॥५३॥ तिबेमि ॥
एषा भगवदुक्ता दशविधसामाचारी समासेन-सक्षेपेण 'वियाहिया' व्याख्याता । याः सामाचारीश्चरित्वाङ्गीकृत्य बहवो जीवाः संसारसागरं तीर्णाः, इत्यहं ब्रवीमि । इति सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह ॥५३ ॥
इति सामाचार्याख्यं षड्विंशतितममध्ययनं सम्पूर्णम् ॥ २६ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां सामाचार्याख्यं षड्विंशतितममध्ययनं सम्पूर्णम् ॥ २६ ॥