________________
९०]
[उत्तराध्ययनसूत्रे ___अन्यदा वसन्ते मदनमञ्जर्या सह कुमारएकाक्येव क्रीडावने गतः, तत्र रात्रौ मदनमञ्जरी सर्पण दष्टा, मृतेव सञ्जाता। ___कुमारस्तु तन्मोहादग्नौ प्रविशन् गगनमार्गेण गच्छता विद्याधरेण वारितः, विद्याबलेन सा जीविता, विद्याधरस्तु स्वस्थानं गतः, कुमारस्तया समं रात्रिवासार्थं कस्मिंश्चिद्देवकुले गतः, तत्र तां मुक्त्वोद्योतकरणायाग्निमानेतुं कुमारो बहिर्गतः, तदानीं तत्र पञ्च पुरुषाः पूर्वं कुमारहत-दुर्योधनचौरभ्रातरः कुमारवधाय पृष्ठावागता इतस्ततो भ्रान्त्वा कुमारछलमलभन्तः समायाताः सन्ति, तैस्तु तत्र दीपको विहितः, मदनमञ्जर्या तेषां मध्ये लघुभ्रातू रूपं विलोकितम्, रूपाक्षिप्तयानया तस्यैव प्रार्थना विहिता त्वं मम भर्ता भव अहं तव पत्नी भवामि, तेनोक्तं तव भर्तरि जीवति सति कथमेवं भवति, सा प्राह तमहं मारयिष्यामि, तदानीमग्नि गृहीत्वा कुमारस्तत्र प्राप्तः, आगच्छन्तं कुमारं दृष्ट्वा तया तत्रस्थो दीपो विध्यापितः, तत्रायातेन कुमारेण पृष्टमत्रोद्योतः कथमभूत् ? तयोक्तं तव हस्तस्थस्याग्नेरेवोद्योतः, सरलेन तेन तथैवाङ्गीकृतम्, मदनमञ्जर्या हस्ते खड्गं दत्वा कुमारोऽग्निप्रज्वलनार्थं ग्रीवामधश्चकार, तावता तया कुमारवधार्थं खड्गं प्रतीकारान्निष्कासितम्, तस्याश्चरित्रं दृष्ट्वा चौरलघुभ्रातुर्वैराग्यमुत्पन्नम्।
पश्चादस्या हस्तात्तेन खड्गमन्यत्र पातितम्, पञ्चापि भ्रातरस्ततः कुमाराऽलक्षिताः शनैः शनैर्निर्गताः कस्मिंश्चिद्वने गताः, तैस्तत्र चैत्यमेकमुत्तुङ्गं दृष्टम्, तत्र सातिशयज्ञानी साधुरेको दृष्टः, तत्समीपे तैः पञ्चभिरपि दीक्षा गृहीता, ततस्तदाज्ञां पालयन्तः संयमे रतास्तत्रैव तिष्ठन्ति, कुमारेण नैतत्किमपि ज्ञातम् ।
अथ कुमारस्तत्र मदनमञ्जर्या सह रात्रिमेकामुषित्वा प्रभाते स्वगृहे समायातः, कियद्दिनानन्तरमश्वापहृत एक एवागडदत्तकुमारस्तस्मिन्नेव वने तत्रैव चैत्ये गतस्तत्र देवान्नमस्कृत्य साधवो वन्दिताः, गुरुणा देशना दत्ता, कुमारेण पृष्टं भगवन् ! क एते पञ्चापि भ्रातर इव साधवः ? कथमेषां वैराग्यमुत्पन्नम् ? कथमेभिर्यौवनभरेऽपि व्रतं गृहीतम् ? एवं कुमारेण पृष्टे गुरुः प्राह सर्वं तदीयं वृत्तान्तम् । कुमारस्तच्चरित्रं श्रुत्वा युवतीस्वरूपमेवं विचिन्तयति
"अणुरजंति खणेणं, जुवईओ खणेण पुणो विरजंति ।
अन्ननरागणिरया, हलिद्दरागुव्व चलपेमा ॥ १ ॥" इति विचिन्त्य कुमारोऽपि वैराग्यात्प्रव्रजितः । यथासावगडदत्तः प्रतिबुद्धजीवी पूर्व दव्यासुप्तः, पश्चाद्भावासुप्तोऽपीहलोके परलोके च सुखी जातः ॥६॥
चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो ।
लाभंतरे जीविय वूहइत्ता, पच्छा परिन्नाय मलावधंसी ॥७॥ १ अनुरज्यन्ति क्षणेण, युवतयः क्षणेण पुनः विरज्यन्ति ।
अन्यान्यरागनिरता, हलिदराग इव चलत्प्रेमा ॥१॥