SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् ४] [८९ समं युद्धं कृतम्, भग्नं कुमारसैन्यम्, भिल्लैटुंण्टितमितस्ततो गतम्, भिल्लपतिस्तु कुमारस्थे समायातः, उत्पन्नबुद्धिना कुमारेण स्वपत्नी रथाग्रभागे निवेशिता, तस्या रूपेण मोहं गतो भिल्लपतिः कुमारेण हतः, पतिते च तस्मिन् सर्वेऽपि भिल्ला नष्टाः, कुमारस्तु तेनैवैकेन रथेन सह गच्छन्नग्रे महतः सार्थस्य मिलितः, सार्थोऽपि सनाथ इव मार्गे चलितः। कियन्मार्ग गत्वा साथिकैः कुमारायैवमुक्तम्, कुमार ! इतः प्रवरमार्गे भयं वर्तते, ततः प्रवरमार्ग विहायापरमार्गेण गम्यते, कुमारेणोक्तं किं भयं ? ते कथयन्त्यस्मिन् प्रवरमार्गे महत्यटवी समेष्यति, तस्या मध्ये महानेकश्चौरो दुर्योधननामा वर्तते, द्वितीयस्तु गर्जारवं कुर्वन् विषमो गजो वर्तते, तृतीयो दृष्टिविषसो वर्तते, चतुर्थो दारुणो व्याघ्रो वर्तते । एवं चत्वारि भयानि तत्र वर्तन्ते । कुमारः प्राहैतेषां मध्ये नैकस्यापि भयं कुरुत, चलत सत्वरं मार्गे, कुशलेनैव शङ्खपुरे यास्यामः। ततः सर्वेऽपि तस्मिन्नेवाध्वनि चलिताः, अग्रे गच्छतां तेषां दुर्योधनश्चौरस्त्रिदण्डभाग्मिलितः सोऽपि पान्थोऽहं शङ्खपुरे यास्यामीति वदन् सार्थेन सार्धं चलति, मार्गे चैकः सन्निवेशः समायातस्तदा त्रिदण्डिनोक्तं ममोपलक्षितोऽयं सन्निवेशो वर्तते, तेनात्र गत्वा मया दध्याद्यानीयते यदि भवतां रुचिः स्यात् । सार्थिकैरुक्तमानीयतां, ततस्तेन तदन्तर्गत्वा दध्याद्यानीतम्, विषमिश्रितं कृत्वां सर्वेषां पायितम्, मृताः सर्वे सार्थिकाः, अगडदत्तेन भार्याद्वययुतेन तन्न पीतमिति न मृतः, स त्रिदण्डी पुनः सन्निवेशमध्ये गत्वा कियत्परिवारयुतो गृहीतशस्त्रः कुमारमारणायायातः, कुमारेण खड्गं गृहीत्वा सन्मुखं गत्वा घोरसङ्ग्रामकरणेन स हतः, परिवारस्तु नष्टः, भूमौ पतता तेन चौरेणैवमुक्तमहं दुर्योधनश्चौरः प्रसिद्धः, त्वयाहं हतो न जीविष्यामि, परं मम बहुद्रव्यं वर्तते, मम भगिनी जयश्रीनाम्यस्मिन् वनमध्ये वर्तते, तत् त्वया गृहीतव्यम्, सा च पत्नी कार्या, कुमारस्तत्र गतः, साहूता समायाता, दृष्टः कुमारः, ज्ञातस्तया भ्रातृवृत्तान्तः, तया कुमारोऽपि गुहामध्ये आकारितः, तत्र गच्छन् मदनमञ्जर्या वारितः, तां तत्रैव मुक्त्वा रथारूढः कमारोऽग्रे चलितः, कियन्मार्ग यावदगतेन कुमारेण प्रचण्डशुण्डादण्डप्रभग्नतरुकोटिनिघृष्टगिरितटः सवेगं सन्मुखमागच्छन् यम इव रौद्ररूपो गजो दृष्टः। ततः कुमारो स्थादुत्तीर्य गजाभिमुखं प्रचलितः, उत्तरीयवस्त्रवेष्टिकां कृत्वा गजागे मुमोच, गजस्तत्प्रहारार्थं शुण्डादण्डमधः क्षिपन् यावदीषन्नतस्तावता कुमारस्तद्दन्ताग्रद्वये पादौ कृत्वा तत्स्कन्धेऽधिरूढः, वज्रकठिनाभ्यां स्वमुष्टिभ्यां तत्कुम्भस्थलद्वयं जघान, कुमारेण प्रकाममितस्ततो भ्रामयित्वा स गजो वशीकृतः, पश्चात्स गजो गौरिव शान्तीकृतो मुक्तश्च, तत्रैव पुनः कुमारो रथे निविष्टोऽग्रे चलितः, कियन्मार्गं यावद् गच्छति कुमारस्तावत्कुण्डलीकृतलाङ्गुलः स्वरवेण गिरिप्रतिच्छन्दान् विस्तारयन् विधुच्चञ्चललोचनः सर्पोपमां रसनां स्वमुखकुहरानिष्कासयन् व्याघ्रः समायातः, तेनापि समं कुमारो युद्धं -कृतवान्, कुमारेण कर्कशप्रहारैर्जर्जरितः व्याघ्रस्तत्रैव पतितः, कुमारस्ततोऽग्रे चलितः, सर्पोपद्रवोऽपि मार्गे विद्ययैव निवर्तितः, कुशलेन कुमारः स्त्रीद्वयसंयुतः शङ्खपुरे प्राप्तः, प्रवेशमहोत्सवः प्रकामं पितृभ्यां कृतः, सर्वेषां पौराणां परमानन्दः सम्पन्नः, तत्र सुखेन कुमारस्तिष्ठति । ૧ ૨
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy