________________
८८]
[ उत्तराध्ययनसूत्रे
स तापसः कुमारं प्रत्येवमुवाच- कुमार ! क्षणमात्रं वने तिष्ठामः, , निदासुखमनुभवामः, परिव्राजकेनेत्युक्ते सर्वेऽपि पुरुषास्तत्र सुप्ताः, कपटनिद्रया परिव्राजकोऽपि सुप्तः कुमारोऽपि नैतादृशानां विश्वासः कार्य इति कपटनिद्रयैव सुप्तः, तावता स परिव्राजक उत्थाय तान् सर्वान् कङ्क्पत्र्या मारयामास, यावत्कुमारसमीपे समायाति, तावत्कुमार उत्थाय तं खङ्गेन जङ्घाद्वये जघान, छिन्ने जङ्घाद्वये स तत्रैव पतितः कुमारं प्रत्येवमुवाच हे वत्साहं भुजङ्गनामा चौर:, ममेह श्मशाने पातालगृहमस्ति, तत्र वीरपत्नी नाम्नी मम भगिन्यस्ति । अथ वटपादपस्य मूले गत्वा तस्याः शब्दं कुरु । यथा सा भूमिगृहद्वारमुद्घाटयति, त्वां च स्वस्वामिनं करिष्यति ।
सङ्केतदानार्थं मत्खङ्गं गृहाणेत्युक्ते कुमारस्तत्खङ्गं गृहीत्वा तत्र गतः, स तु तत्रैव मृतः, कुमारेण सा शब्दिता, आगता च सा द्वारमुद्घाटयामास । कुमारेण भ्रातुः खड्गं दर्शयित्वा स्वरूपमुक्तम्, तस्या अन्तः खेदो जातः, परं न मुखे खेदं दर्शयामास मध्ये आकारितः कुमारः, पल्यङ्के शायितः, उक्तं च तव विलेपनाद्यर्थं चन्दनादिकमहमानयामीति । ततो निर्गता सा कुमारेण चिन्तितं प्रायः स्त्रीणां विश्वासो न कार्यः; यतः शास्त्रे इमे दोषा प्रायो भवन्ति
-
'माया अलियं लोभो, मूढत्तं साहसं असोयत्तं । निस्संतिया तहच्चिय, महिलाण सहावया दोसा ॥ १ ॥
एतस्यास्तु तथाविधचौरभगिन्या विश्वासो नैव कार्य इति विचिन्त्य कुमारः शय्यां मुक्त्वान्यत्र गृहकोणे स्थितः, सा बहिर्गत्वा यन्त्रप्रयोगेण शय्योपरि शिलां मुमोच तया शय्या चूर्णिता । ततः कुमारेण सा सद्यः साक्रोशं केशेषु धृत्वा राज्ञः समीपे आनीता, प्रोक्तः सर्वोऽपि वृत्तान्तः, राज्ञा तद्भूमिगृहात्समस्तं वित्तमानाय्य लोकेभ्यो दत्तम्, कुमारेण सा जीवन्ती मोचिता, पश्चान्नृपाग्रहात् कुमारेण नृपसुता कमलसेना नाम्नी परिणीता, नृपेण कुमारस्य सहस्त्रं ग्रामा दत्ताः, शतं गजा दत्ताः, दशसहस्त्राण्यश्वा दत्ताः, लक्षं पदातयश्च दत्ताः, ततः सुखेन कुमारस्तत्र तिष्ठति ।
अन्यदा कलाभ्याससमये यया श्रेष्ठिसुतया सह प्रीतिर्जातास्ति तया मदनमञ्जर्या कुमारसमीपे दूती प्रेषिता; तयोक्तं तव गुणानुरक्ता तवैवेयं पत्नी भवितुं वाञ्छति, कुमारेणाप्युक्तं - यदाहं शङ्खपुरं यास्यामि तदा त्वां गृहीत्वा यास्यामीति तस्यास्त्वया वक्तव्यम् ।
अथान्यदा तत्र पित्रा प्रेषिता नराः कुमाराकारणाय समेताः, कुमारस्तु तेषां वचनमाकर्ण्य पितुर्मीलनाय भृशमुत्कण्ठितः श्वशुरं पृष्ट्वा कमलसेनया समं चलितः, चलनसमये च मदनमञ्जर्याकारिता, सापि कुमारेण समं चलिता, ताभ्यां प्रियाभ्यां सह सैन्यवृतः कुमारः पथि चलन् बहून् भिल्लान् सन्मुखमापततो ददर्श, तदा कुमारसैन्येन तैः १ “मायाऽलिकं लोभो, मूढत्वं साहसमशौचत्वम् ।
निःशान्तिका [ नृशंसता (?) ] तथाचैव, महिलानां स्वाभाविका दोषाः ॥ १ ॥ "