SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् ४] [८७ मेऽपि न दृश्यते । ततः कुमारेणोक्तं राजन्नहं सप्तदिनमध्ये तस्करकर्षणं चेन्न करोमि तदाग्निप्रवेशं करोमीति प्रतिज्ञा कृता, राज्ञा तु पुरलोकप्राभृतं कुमाराय दत्तम् । कुमारस्तत उत्थाय चौरस्थानानि विचारयति, यथा-. "'वेसाण मंदिरेसु, पाणागारेसु जूयट्ठाणेसु । 'कुल्लरियावणेसु अ, उज्जाणनिवाणसालासु ॥ १ ॥ मठसुन्नदेवलेसु अ चच्चरचउहट्टसुन्नसालासु । एएसु ठाणेसु, पाएणं तकरो होई ।। २ ॥" एवं चौरस्थानानि पश्यतः कुमारस्य षड् दिना गताः, पश्चात्सप्तमे दिने नगराबहिर्गत्वा तरोरधः स्थित एवं चिन्तयति - "छिज्जउ सीसं अहवा, होउ बंधणं चयउ सव्वहा लच्छी। पडिवनपालणेसु, पुरिसाणं जं होइ तं होउ" ॥ १ ॥ एवं चिन्तयन्नसौ कुमार इतस्ततो दिगवलोकनं करोति । तस्मिन्नवसरे एकः परिहितधातुवस्त्रो मुण्डितशिर:कूर्चस्त्रिदण्डधारी चामरहस्तः किमपि बुड् बुड्' इति शब्द मुखेन कुर्वाणः परिव्राजकस्तत्रायातः, कुमारेण दृष्टश्चिन्तितं चायमवश्यं चौरो यतोऽस्य लक्षणानीदृशानि सन्ति, यथा - ""करिसुंडाभुयदंडो, विसालवत्थलो फरु सकेसो । नवजुव्वणो रउद्दो, रत्तच्छो दीहजंघो य" ॥ १ ॥ एवं चिन्तयतः कुमारस्य तेन कथितमहो सत्पुरुष ! कुतस्त्वमायातः? केन कारणेन च पृथिव्यां भ्रमसि ? भणितमुज्जयिनीतोऽहमत्रायातोऽस्मि, दारिद्मभग्नश्च भ्रमामि । परिव्राजक उवाच-वत्स ! मा खेदं कुरु, अद्य तव दारिनं छिनधि समीहितमर्थं च ददामि। ततो दिवसं यावत्तौ तत्र स्थितौ, रात्रौ कुमारसहितश्चौर: कस्यचिदिभ्यस्य गृहे गतः, तत्र क्षात्रं दत्तवान्, तत्र स्वयं प्रविष्टः, कुमारस्तु बहिः स्थितः, परिव्राजकेन द्रव्यभृताः पेटिकास्ततो बहिः कर्षिताः, ताः क्षात्रमुखे कुमारसमीपे मुक्त्वा स्वयमन्यत्र कुत्रचिद्गत्वा दारियभग्नाः पुरुषा अनेके आनीताः, तेषां शिरस्सु ताः पेटिका दत्वा कुमारेण समं स्वयं बहिर्गतः। १ "वेश्यानां मन्दिरेषु, पानागारेषु द्यूतस्थानेषु । कान्दविकापणेषु च, उद्याननिपानशालासु ॥१॥ मठ-शून्यदेवलेषु च, चत्वर-चतुष्पथशून्यशालासु । एतेषु स्थानेषु, प्रायः तस्करो भवति ॥२॥" २ कुल्लूरियवणेसु L.। कुल्लूरिअ' एवं कुल्लरिअ' द्वावपि कान्दविकार्थे स्तः । दष्टव्यः पाइअसद्दमहण्णवो प. २५६ ॥ ३ "छिद्यते शीर्षम् अथवा, भवतु बन्धनं, त्यजतु सर्वथा लक्ष्मी। प्रतिपन्नपालनेषु, पुरुषानां यद् भवति तद्भवतु ॥१॥" ४ हस्तिशुण्डाभुजदण्डो, विशालवक्षस्थलः कर्कशकेश: । नवयौवना रौदो, रक्ताक्षो दीर्घजङ्गश्च ॥१॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy