________________
८६]
[उत्तराध्ययनसूत्रे दासि ! केयं ते धीस्त्वं मां हनिष्यसि ? सा तत्पादयोः पतिता, तव चरणौ मे शरणमिति बभाण । अथ तेन सा मा भयं कुर्वीत्याश्वासिता, स्वकरे गृहीता, राजकुले नीता, कथितश्च समस्तवृत्तान्तः राज्ञा सोऽगडदत्तः पूजितः विप्रशंसितश्च । एवमप्रमत्ता इहैव कल्याणभाजो भवन्ति । उत्को द्रव्यसुप्तेषु प्रतिबुद्धजीवदृष्टान्तः ।
एतावदुत्तराध्ययनबृहद्वृत्तिगतमगडदत्तव्याख्यान लिखितम् अथ कथाग्रन्थलिखितमगडदत्ताख्यानं लिख्यते
शङ्खपुरे सुंदरनृपः, तस्य सुलसा प्रिया, तत्सुतोऽगडदत्तः, स च सप्तव्यसनानि सेवते, लोकानां गृहेष्वप्यन्यायं करोति, लोकैस्तदुपालम्भा राज्ञो दत्ताः, राज्ञा स निर्वासितो गतो वाराणस्याम्, पठन् चण्डोपाध्यायगृहे स्थितः, द्विसप्ततिकलावान् जातः, गृहोद्याने कलाभ्यासं कुर्वन् प्रत्यासन्नगृहगवाक्षस्थया प्रधानश्रेष्ठिसुतया मदनमञ्जर्या तदूपमोहितया च प्रक्षिप्त-पुष्पस्तबकतः सञ्जातप्रीतस्तन्मय एव जातः, अन्यदा तुरगारूढः स नगरमध्ये गच्छन्नस्ति, तावतेदृशो लोककोलाहलः श्रुतो यथा
"कि चलिओव्व समुद्दो, किं वा जलिओ हुआसणो घोरो। किं पत्तं रिउसेण्णं, तडिदंडो निवडिओ किं वा ॥ १ ॥ मिठेणवि परिचत्तो, मारंतो सुंडि गोपुरं पत्तो ।
सवडं मुहं चलंतो, कालुव्व अकारणे कुद्धो ॥ २ ॥" तावता तेन कुमारेणावं मुक्त्वा स हस्ती गजदमनविद्यया दान्तः, पश्चात्तमारुह्य राजकुलासनमायातो राज्ञा दृष्टः, आकारितो मानपूर्वम्, कुमारेण तं गजमालानस्तम्भे बद्ध्वा राज्ञः प्रणामः कृतः, राज्ञा चिन्तितं कश्चिन्महापुरुषोऽयम्, यतोऽत्यन्तविनीतो दृश्यते, यतः
"सालीभरेण तोयेण, जलहरा फलभरेण तरुसिहरा ।
विणएण य सप्पुरिसा, नमंति न हु कस्सइ भएण ॥ १॥" ततो विनयरञ्जितेन राज्ञा तस्य कुलादिकं पृष्टं कियान् कलाभ्यासः कृत इत्यपि पृष्टम्, कुमारस्तु लज्जालुत्वेन न किञ्चिज्जगौ, उपाध्यायेन तस्य कुलादिकं सर्वविद्यानैपुण्यं कथितम्, कुमारवृत्तान्तं श्रुत्वा चमत्कृतो भूपतिः । अथ तस्मिन्नवसरे राज्ञः पुरो नगरलोकः प्राभृतं मुक्त्वैवमूचिवान्
हे देव ! त्वन्नगरं कुबेरपुरसदृशं कियद्दिनानि यावदासीत् साम्प्रतं रोरपुरतुल्यमस्ति, केनापि तस्करेण निरन्तरं मुष्यते, अतस्त्वं रक्षां कुरु । राज्ञा तलारक्षा आकारिताः, भृशं वचोभिस्तर्जिताः, तैरुक्तं महाराज ! किं क्रियते ? कोऽपि प्रचण्डस्तस्करोऽस्ति, स बहूपक्र१ किं चलित इव समुद्रः, किं वा ज्वलितो हुताशनो घोरो। कि प्राप्त रिपुसैन्यं तडिद्दण्डो निपतितः किं वा ॥१॥ हस्तिपकेनापि परित्यक्तो,मारयन् सुण्ढि गोपुरं प्राप्तः । अभिमुखं चलन्, काल इव अकारणे क्रुद्धः॥२॥ २ शालीभृतेन तोयेन, जलधरा फलभृतेन तरुशिखराः । विनयेन च सत्पुरुषा, नमन्ति न हु कस्यापि भयेन ॥३॥