SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [ ८५ चतुर्थमसंस्कृताख्यमध्ययनम् ४] ततो हृष्टोऽगडदत्तो राजकुलान्निर्गत्य चिन्तयति दुष्टपुरुषाश्च तस्कारश्च प्रायः पानीयस्थाने नानाविधलिङ्गधारिणो भ्रमन्तीत्यहं तच्छुद्धये तटाकोपवनेषु यामीति चिन्तयित्वा नगराद्वहिरेक एवैकस्य शीतलच्छायस्य सहकारपादपस्य तले मलिनाम्बर उपविष्टः, चौरग्रहणोपायं च चिन्तयन्नस्ति, तस्यैवसहकारस्य छायायामायात एकः परिव्राजकः स्थूलजानुर्दीर्घजङ्घ, कुमारेण दृष्टश्चिन्तितं च नूनमेभिर्लक्षणैरयं चौर एवेति, भणितं च तेन परिव्राजकेन वत्स ! कुतस्त्वमायातः ? किं निमित्तं च भ्रमसि ? कुमारेण भणितं भगवन्नहमुज्जयिनीतोऽत्रागतः, क्षीणविभवो भ्रमामि तेन भणितं पुत्र तवाहं विपुलमर्थं ददामि, अगडदत्तेन भणितं तर्ह्ययमनुग्रहीतः । सन्तो हि निष्कारणमुपकारिणः स्युः । एवं तयोरभिलापं कुर्वतोरेव सूर्योऽस्तं गतः । रात्रौ तेन त्रिदण्डाच्छस्त्रं कर्षितम्, बद्धः कच्छ:, , नगरीं याम इति वदन्नेव समुत्थितः, सोऽगदत्तोऽपि सशङ्कितस्तमनुगच्छति, चिन्तयति चैष एव स तस्कर इति द्वावपि प्रविष्टौ नगरीम्, तत्रातिप्रेक्षणीयमतीवोन्नतं कस्यापीभ्यस्य गृहं दृष्टम्, तत्र क्षात्रं दत्तम्, परिव्राजकस्तन्मध्ये प्रविष्टः, अगडदत्तो बहिःस्थश्चिन्तयति चौरस्तु मया ज्ञातः, परमस्य स्वरूपं सर्वं तावत्पश्यामीति परिव्राजकेनानेकभाण्डभृताः पेट्य एव कर्षिताः, अगडदत्त - समीपे ताः स्थापयित्वा गतो देवकुले, ततोऽनेके भारवाहिन आनीतास्तेषां शिरसि ताः स्थापिता, सर्वेऽपि गताः पुराद्बहिः । तापसः कुमारं प्रत्याह हे पुत्रात्र जीर्णोद्याने निद्रासुखमनुभवामः, इत्युक्त्वा सर्वेऽपि सुप्ता निद्राणाश्च । परिव्राजकश्च कपटनिद्रया सुप्तः, अगडदत्तस्तु नैतादृशानां विश्वासः कार्य इत्यवधार्य क्षणं कपटनिद्रया सुप्त्वा तत उत्थाय वृक्षान्तरितः स्थितः, तान् पुरुषान् निद्रावशगतान् ज्ञात्वा स परिव्राजकः 'कङ्कपत्र्या मारितवान्, अगडदत्तस्त्रस्तरे च समागत्य तं तत्रापश्यन् पश्चाद्वलितस्तावतागडदत्तेन तदन्तिके समागत्य खड्गप्रहारेण प्रकामं हतः, पतितः पृथिव्याम् । अगडदतं प्रत्याहवत्स ! गृहाणेमं मम खड्गं व्रज श्मशानस्य पश्चिमे भागे, तत्र भूमिगृहे भित्तौ स्थित्वा शब्दं कुर्याः, तत्र मम भगिनी वसति, तस्या इमं मम खड्गं दर्शयेः, ततः संकेतकथनात्सा ते भार्या भविष्यति, सर्वद्रव्यस्वामी त्वं भविष्यसि, अहं तु गाढप्रहारान्मृतः एवेति, मत्स्वरूपं च तां कथयेः । , ततोऽगडदत्तः खड्गमादाय तत्र गतः, शब्दिता सा आयाता, तेन दृष्टातीवरूपवत्यवदत् कुतस्त्वमायातः ? स प्राह- गृहाणेमं खड्गं तद्दर्शनमात्रेणैव तया सर्वं तस्य स्वभ्रातृस्वरूपं ज्ञातम्, मनस्येव शोकनिगूहनं कृतम्, अगडदत्तस्तद्गृहाभ्यन्तरं नीतः, दत्तमासनम्, तत्र स उपविष्टः, तथा विशिष्टादरेण शय्या रचिता, भणितं च स्वामिन्नत्र विश्राम्यतां, तयेत्युक्ते सुप्तस्तत्रागडदत्तः, सा गृहाद्वहिर्निर्गता, तावतागडदत्तेन चिन्तितमस्या अपि विश्वासो नैव कार्य इति शय्यात उत्थाय अन्यत्र गृहकोणे स्थितः सः, तया तु तच्छय्योपरिष्टात्पूर्वं यन्त्रचालनेनैव मुक्ता शिला, पतन्त्या तया शय्या चूर्णिता, सात्यन्तं हर्षवती दत्ततालैवं वदति हतो मया भ्रातृघातकः, ततोऽगडदत्तेन त्वरितं सा केशेषु गृहीता भणिताच हा १ बाणविशेष ।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy