SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८४] [उत्तराध्ययनसूत्रे केचिद्धातुवादिनः सदीपा: 'सैन्धवा बिलं प्रविष्टाः, तत्प्रमादाद्दीपे विध्याते महातमोमोहिता इतस्ततो भ्रमन्तः प्रचण्डेन विषधरेण दष्टा गर्तायां पतिता मृताः, एवं प्राप्तसम्यक्त्वा अपि जीवा महामोहवशात्पुनर्मिथ्यात्वं गच्छन्तीति परमार्थः ॥५॥ सुत्तेसु यावी पडिबुद्धजीवी, न वीससे पंडिए आसुपन्ने । घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खीव चरप्पमत्तो ॥ ६ ॥ प्रतिबुद्धजीव्यनिद्रोऽप्रमादी पुमानन्येषु सुप्तेष्वप्यविवेकिनरेषु निद्रायुक्तेषु सत्स्वपि न विश्वसेद्विश्वासं नैव कुर्यात्, कीदृशः सः ? आशुप्रज्ञः, तत्कालयोग्यबुद्धिमान्, आशुशीघ्र कार्याऽकार्येषु प्रवृत्ति-निवृत्तिरूपा प्रज्ञा मतिर्यस्य स आशुप्रज्ञः, यतो मुहूर्ताःकालविशेषा घोराः प्राणापहारित्वाद्रौद्राः शरीरमबलं बलरहितं भवति, मृत्युदायिमुहूर्तान् ज्ञात्वाऽप्रमत्तः सन् भारण्डपक्षीव चर। एकोदराः पृथग्ग्रीवा, अन्योन्यफलभक्षिणः । प्रमादात्ते विनश्यन्ति, यथा भारण्डपक्षिणः ॥ १ ॥ हे साधो ! तथा तवापि प्रमादात्संयमजीवितस्य भ्रंशो भविष्यति । अत्रागडदत्तराजपुत्रकथा - उज्जयिन्यां जितशत्रुराज्ञोऽमोघरथो नाम रथिकोऽस्ति, तस्य यशोमती नाम भार्यास्ति, तयोः पुत्रोऽगडदत्तो नाम्ना वर्तते । अन्यदा तस्य बालभावेऽपि पिता मृतः, सोऽभीक्ष्णं रुदन्तीं मातरं दृष्टवा पृच्छति हे मातर्वारंवारं किं रोदिषि ? सा प्राह-तव पितुः पदं विभूति चैषोऽमोघप्रहारी रथिको भुङ्क्ते, त्वं कलास्वकुशलस्तेन तव हस्ते पितुः पदं विभूतिश्च नायात्यतोऽहमत्यन्तं खिन्ना निरन्तरं रोदिमि, बालेन भणितं स कोऽप्यस्ति यो मम कलाः शिक्षयति ? माता प्राहास्ति कौशाम्ब्यां दृढप्रहारी नाम कलाचार्यस्तत्र स त्वामवश्यं कलाकुशलं करिष्यति, अगडदत्तो गतः कौशाम्ब्याम्, दृष्टो दृढप्रहारीनामा कलाचार्यः, कथितं तेन तस्य मातुः खेदकारणम्, कलाचार्येण पुत्र इवासौ स्वपार्श्वे रक्षितः, स्तोककालेनैव कलासु कुशलः कृतः। ____ अन्यदा राजकुले प्रेषितः तेन सभायां दर्शिताः कलाः, चमत्कृतः सकलोऽपि लोकः पुनः पुनः साधुवादमवदत्, राजा तु नास्ति किञ्चिदाश्चर्यमिति वदन्न किंचिदधिकमुवाच, उचिताचारपालनायेदं पुनरुवाच-कुमार ! तुभ्यं किं ददामि ? कुमार आह-हे राजंस्त्वं साधुकारमपि न दत्से ? किमन्येन दानेनेति । अस्मिन्नेवावसरे राजा पोरैरेवं विज्ञप्तः, हे राजन् ! भवत्पुरेऽश्रुतपूर्वं चौरेण व्यापहरणं वारंवारं क्रियमाणमस्ति, एवं च राजलज्जा न तिष्ठति, ततो नगररक्षायत्नः क्रियताम्। . तदैव राज्ञा तलारक्ष आज्ञप्तः सप्ताहोरात्रमध्ये यथा चौरो गृह्यते तथा कर्तव्यम्, तदानीं तत्रस्थोऽगडदत्तः प्राह-राजन् ! अहं सप्ताहोरात्रमध्ये चौरं तव चरणमूलमुपनेष्यामि, राज्ञा तद्वचोऽङ्गीकृतम्, एवं कुर्विति वारंवारमुक्तम् । १ सिन्धु नद्यां गताः।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy