SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् ४] [८३ साधुं दृष्टवान्, वणिगुवाच भो साधो ! विश्राम्यतां? साधुनोक्तं शीघ्रं मया स्वकार्ये गन्तव्यम्, वणिजोक्तं भगवान् कोऽपि परकार्ये गच्छति ? साधुः प्राह-यथा त्वं स्वजनार्थं क्लिश्यसि, अनेनैकेनैव वचनेन स बुद्धः, प्राह-भगवान् ! यूयं क्व तिष्ठथ ? साधुना भणितमुद्याने, स साधुना समं तत्र गतः, तन्मुखाद्धर्ममाकर्ण्य भणति भगवन्नहं प्रव्रजिष्यामि, नवरं स्वजनमापृच्छामि, गतो निजगृहे, बान्धवान् भार्यां च भणति, अत्रापणे व्यवहारतो मम तुच्छलाभोऽस्ति, देशान्तरं यास्यामि, सार्थवाहद्वयमत्रायातमस्ति, एकः सार्थवाहो मूलद्रव्यमर्पयति, इष्टपुरं नयति, न च लाभं गृह्णााति, द्वितीयो मूलद्रव्यमर्पयति, सह गमनाल्लाभं च गृह्णाति, तत्केन सह गमनं युज्यते ? तैरुक्तं प्रथमेन सह व्रज । अथ स वणिक् स्वजनैः समं वने गत्वोवाचायं मुनिः परलोकसार्थवाहः, स्वकीयमूलद्रव्येण व्यवहारं कारयति, मोक्षपुरं च नयतीति दृष्टान्तदर्शनपूर्वकं स्वजनानापृच्छ्य स वणिक्तस्य गुरोः समीपे दीक्षां जग्राहेति ॥ ४॥ वित्तेण ताणं न लभे पमत्ते, इमंमि लोए अदुवा परत्थ । दीवप्पणद्वेव अणंतमोहे, नेयाउयं दद्रुमदट्ठमेव ॥ ५ ॥ प्रमत्तः- प्रमादी मनुष्यो वित्तेन-द्रव्येण कृत्वा 'इममि लोए' अस्मिन् लोकेऽथवा परलोके त्राणं-स्वकृतकर्मतो रक्षणं न लभेत-न प्राप्नुयात् । वेश्यागृहस्थपुरोहितपुत्रवत् कस्मिंश्चिन्नगरे कोऽपि राजा इन्द्रमहोत्सवे सान्तःपुरो निर्गच्छन् निर्घोषं कारयामास, सर्वे पुरुषा नगरादहिरायान्तु, योऽत्र स्थास्यति तस्य महादण्डो भविष्यति, तत्र राजवल्लभः पुरोहितपुत्रो वेश्यागृहे प्रविष्टो राजपुरुषघोषणां श्रुत्वापि ततो न निर्गतः, राजपुरुषैर्गृहीतोऽप्यसौ राजवल्लभत्वेन दर्पं कुर्वन्न तेभ्यः किञ्चिद्ददौ, तैस्तु राजसमीपे नीतः, राज्ञा त्वाज्ञाभञ्जकत्वेनास्य शूलादण्डः कथितः, पुरोहितेन तत्पित्रा सर्वस्वमहं ददामीत्युक्तं तथापि राज्ञा नायं मुक्तः, शूलायामारोपित एवेति । दीपप्रणष्टः-प्रणष्टदीपः पुरुषो भावोद्यो तरहितः पुरुषो यथा नैयायिकं सम्यग्दर्शनादितत्त्वं दृष्ट्वाऽदष्टमिव करोति, कीदृशः प्रणष्टदीपः पुरुषः ? अनन्तमोहः, अनन्तोऽविनाशी मोहो दर्शनावरणमोहनीयात्मको यस्य सोऽनन्तमोहः, एतादृशोऽज्ञानीत्यर्थः, अत्र प्राकृतत्वात् षष्ठ्यर्थे प्रथमापि, प्रणष्टदीपस्य-प्रणष्टसम्यक्त्वस्य, अनन्तमोहस्योदितमिथ्यात्वस्य नैयायिक सम्यग्दर्शनतत्त्वं लब्धमलब्धमिव स्यात्, प्राप्तं सम्यक्त्वमप्राप्तमिव स्यात्, तद्दर्शनफलस्याभावात् । लब्धस्य सम्यक्त्वस्य हानितोऽलब्धमेव, न केवलं प्रमादी पुमान् वित्तेन त्राणं न लभेत, किन्तु प्रमादी त्राणकारणं नरकादिभयनि-वारणहेतु सम्यग्ज्ञानादिरत्नत्रयमपि हन्तीत्यर्थः । __ अत्र खनिप्रविष्टधातुर्वादी पुरुषो यथा प्रणष्टदीपो जातः, तस्य दृष्टपूर्वोऽपि मार्गोऽदृष्टवज्जातः, अत्र तत्कथा ।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy