________________
[ उत्तराध्ययनसूत्रे क्वचिन्नगरे कस्यचिद्व्यवहारिण: फलकरचिते गृहे केनचिच्चौरेण प्राकारकपिशीर्षाकृतिक्षात्रं दत्तम्, तत्र प्रविशन्नन्तः स्थजागरूकगृहस्वामिना बहिः स्थचौरेण चाकृष्यमाणो विलपन्नेव मृतः । एवममुना दृष्टान्तेन प्रजा-लोकः प्रेत्य-परलोके च पुनरिहेहलोके कृत्यतेपीड्यत इत्यर्थः । इह लोके च धनार्जनार्थं क्षुत्तृषा-शीता ऽऽतपसहन-पर्वतारोहणजलधितरण - नृपसेवन - सङ्ग्रामे प्रहारसहनादिक्लेशेन, परभवे च विविधनरक क्षेत्रवेदनापरमाधार्मिकविनिर्मितव्यथया कृत्यत इत्यर्थः । कथं हि परलोके पीड्यते तत्र हेतुमाह कृतानामुपार्जितानां कर्मणां मोक्षो नास्ति ॥ ३ ॥
८२]
अत्र पुनश्चौरकथा -
क्वापि ग्रामे कोऽपि चौरो दुरारोहे मन्दिरे क्षात्रं दत्वा द्रव्यं लात्वा स्वगृहं गतः, प्रत्यूषे कः किं वदतीति वार्ता श्रवणाय क्षात्रासन्नलोकमध्ये गतः, , लोकास्तु तत्रेत्थं वदन्ति कथमत्र लघीयसि क्षात्रे चौरः प्रविष्टो निर्गतो वेति लोकवाक्यं श्रुत्वा स्वकटीं विलोकयन् भूपनरैर्धृतो व्यापादितश्च ॥ ३ ॥
संसारमावन्न परस्स अट्ठा, साहारणं जं च करेइ कम्मं ।
कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उविंति ॥ ४ ॥
संसारं समापन्न संसारी जीवः परस्यार्थं परार्थं - परनिमित्तं पुत्र - मित्र - कलत्रस्वबान्धवाद्यर्थं यत्साधारणमुभयार्थमात्म-परनिमित्तं यत्कर्म करोति, ते मित्र - 1 - पुत्र- कलत्रादयः स्वबान्धवास्तस्य पापकर्मकारिणः पुरुषस्य पापकर्मफलवेदकाले विपाककाले बान्धवतां -बन्धुभावं दुःखवण्टनभावं नोपयान्ति ॥ ४ ॥
अत्राभीरीवञ्चककथा -
यथा - क्वापि ग्रामे कोऽपि वणिग्ट्टे क्रयविक्रयं करोति, अन्यदैकाभीरी तद्धट्टे आगता, तया भणितं भो रूपकद्वयस्य मे रुतं देहि ? तेनोक्तमर्पयामि, अर्पितं तया रूपकद्वयम्, तेन वणिजैकस्यैव रूपकस्य रुतं वारद्वयं तोलयित्वार्पितम्, सा जानाति मम रूपकद्वयस्य रुतं दत्तम्, वञ्चिता च सा, तस्यां गतायां स चिन्तयत्येष रूपको मया मुधा लब्धः ततोऽहमेवमुपभुञ्जामि, तस्य रूपकस्य घृतखण्डादि लात्वा स्वगृहे विसर्जितम्, भार्यायाः कथापितमद्य घृतपूरान् कुर्या: ? तया घृतपूराः कृताः तावता तद्गृहे समित्रो जामाता समायतः, तस्यैव तया घृतपूराः परिवेषिताः, समित्रेण तेन भक्षिताः, गतः समित्रो जामाता, वणिग् गृहे समायातः स्नानं कृत्वा भोजनार्थमुपविष्टः, तया स्वाभाविकमेव भोजनं परिवेषितम्, वणिग्भणति कथं न कृता घृतपूराः ? तयोक्तं कृताः, परमागन्तुकेन समित्रेण जामात्रा भक्षिताः, स चिन्तयति मया सा वराक्याभीरी वञ्चिता, परार्थमेवायमात्मा पापेन संयोजितः, एवं चिन्तयन्त्रेवासौ शरीरचिन्तार्थं बहिर्गतः, तदानीं ग्रीष्मो वर्तते, स मध्याह्नवेलायां कृतशरीरचिन्त एकस्य वृक्षस्याधस्ताद्विश्रमार्थमुपविष्टः, तेन मार्गेण गच्छन्तं