SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् ४] [८१ तस्य त्वरितमेव मल्लविद्याः समायाताः, मत्सीमल्ल इति नाम कृतम् ।अन्यदाट्टणमल्लः सोपारके समायातस्तेन समं राज्ञा मत्सीमल्लस्य युद्ध कारितम्, जितो मत्सीमल्लः, अट्टणः पराजितः, स्वनगरे गत एवं चिन्तयति, मत्सीमल्लस्य तारुण्येन बलवृद्धिर्मम तु वार्धक्येन बलहानिः, ततोऽन्यं स्वपक्षपातिनं मल्लं करोमि। ___ ततोऽसौ बलवन्तं पुरुषं विलोकयन् भृगुकच्छदेशे समागतः । तत्र हिरणीग्रामे एकः कर्षक एकेन करेण हलं वाहयन् द्वितीयेन फलहीयमुत्पाटयन् दृष्टः, स भोजनाय स्वस्थानके सार्धं नीतः, तस्य बहु भोजनं दृष्टम्, उत्सर्गसमये च सुदृढमल्पं पुरीषं दृष्ट्वा मल्लविद्या ग्राहिता, फलहीमल्ल इति नाम कृतम्, अट्टणः सोपारके फलहीमल्लं गृहीत्वा गतः, राज्ञा मत्सीमल्लेन समं फलहीमल्लस्य युद्धं कारितम्, प्रथमे दिवसे द्वयोः समतैव जाता, अट्टणेन स्वोत्तारके फलहीमल्लः पृष्टो हे पुत्र ! तवाले क्व प्रहारा लग्नास्तेन स्वाङ्गप्रहारस्थानानि दर्शितानि, अट्टणेनौषधीरसेन तानि स्थानानि तथा मर्दितानि, यथासौ पुनर्नवीभूतः । मत्सीमल्लस्यापि राज्ञा पृष्टं क्व तवाङ्गे प्रहारा लग्नास्तत्स्थानं दर्शय? फलहीमल्लः पुनर्नवीभूतः श्रूयते, मत्सीमल्लोऽभिमानान्न स्वस्थानं दर्शयति, वक्ति चाहं पुनर्नवीभूतः फलहीपितरं जयामि । द्वितीयदिवसे पुनयुद्धावसरे द्वयोरपिसाम्यमेव जातम्, तृतीयदिवसे मत्सीमल्लो जितः, फलहीमल्लेनाट्टणेन च स्वपराभवः स्मारितः, ततो मत्सीमल्लेनान्याययुद्धाचरणेन फलहीमल्लस्य मस्तकं छिन्नम्, खिन्नोऽट्टणमल्लो गत उज्जयिनीम्, तत्र विमुक्तयुद्धव्यापारः स्वगृहे तिष्ठति, परं जराक्रान्त इति न कस्मैचित्कार्याय क्षम इति स्वजनैः पराभूयते ।। अन्यदा स्वजनापमानं दृष्टवा तदनापृच्छ्यैव कौशाम्बी नगरी गतः, तत्र वर्षमेकं यावदसायनं भक्षितवान्, ततः सोऽत्यन्तं बलवान् जातः । उज्जयिन्यां राजपर्षदि मल्लमहे प्रवर्तमाने पुनर्नवागतयौवनेनाट्टणमल्लेन समागत्य राज्ञो नीरङ्गणनाम महामल्लो जितः, राज्ञा तु मदीयोऽयं मल्ल आगन्तुकेनानेन मल्लेन जित इति कृत्वा न प्रशंसितः, लोकोऽपि राजप्रशंसामन्तरेण मौनभाग्जातः, अट्टणस्तु स्वस्वरूपज्ञापनार्थं सभापक्षिणः प्रत्याह भो भो पक्षिणो बुवन्तु ? अट्टणेन नीरङ्गणो जितः । ततो राज्ञोपलक्षितो मदीय एवायमट्टणमल्ल इति कृत्वा सत्कृतः, बहुदव्यं चास्मै राज्ञा दत्तम्, स्वजनस्तं तथाभूतं श्रुत्वा तत्सन्मुखमागत्य मिलितः, सत्कारादि च चकार । अट्टणेन चिन्तितं द्रव्यलोभादेते मम साम्प्रतं सत्कारं कुर्वन्ति, पश्चान्निद्रव्यं मामपमानयिष्यन्ति, जरापरिगतस्य मे न कश्चित् त्राणाय भविष्यति, यावदहं सावधानबलोऽस्मि तावत्प्रव्रजामीति विचार्य गुरोः समीपेऽट्टणेन दीक्षा गृहीता इति 'जरोवणीयस्स हु नत्थि ताणं' अत्राट्टणमल्लकथा समाप्ता। तेणे जहा संधिमुहे गहीए, सकम्मुणा किच्चइ पावकारी । एवं पया पिच्च इहं च लोए, कडाण कम्माण न मुक्खु अत्थि ॥३॥ यथा स्तेनश्चौरः सन्धिमुखे-खात्रद्वारे गृहीतः स्वकर्मणा, स्वकीयकृतखात्रचातुर्येण कृत्वा कृत्यते-शरीरे छिद्यते, काष्टफलके कपिशीर्षाकार उत्कीर्णखात्रसङ्कीर्णद्वारेण शरीरे विदार्यत इत्यर्थः । कीदृशश्चौरः ? पापकारी, अत्र दृष्टान्त: ૧૧
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy