________________
॥अथ चतुर्थमसंस्कृताख्यमध्ययनं प्रारभ्यते ॥
अथ तृतीयाध्ययने चतुरङ्गी दुर्लभोक्ता, चतुर्थाध्ययने तां प्राप्य प्रमादस्त्याज्य इत्युच्यते, इति तृतीयचतुर्थाध्ययनयोः सम्बन्धः ।
असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं । एवं वियाणाहि जणे पमत्ते, कनू विहिंसा अजिया गर्हिति ॥१॥
हे भव्या जीवितमायुरसंस्कृतं वर्तते, यत्नशतैरप्यसतो वर्धयितुं त्रुटितस्य वा, 'कर्णवत्सन्धानं कर्तुमशक्यत्वात्, जीवितं हि केनापि प्रकारेण सन्धातुं न शक्यत इत्यर्थः । ततो मा प्रमादीर्मा प्रमादं कृथाः, 'हु' इति निश्चयेन जरयोपनीतो जरोपनीतः, तस्य वृद्धत्वेन मरणसमीपं प्रापितस्य पुरुषस्य त्राणं-शरणं नास्ति । हे भव्य ! पुनरेवं विशेषेण जानीहि । एवमिति किं ? विहिस्त्रा विहिंसनशीला अतिशयेन पापाः, कं शरणं ग्रहीष्यन्ति ? 'नु' इति वितर्के, कीदृशा विहिंस्त्राः ? अजिता-अजितेन्द्रियाः, पुनः कीदृशाः ? प्रमत्ता:-प्रमादिनः, इन्द्रियवशवर्तिनां प्रमादिनां पापानां जरा-मरणाद्युपद्रवे कश्चिच्छरण्यो नास्ति, 'जणे पमत्ते' इति प्रथमाबहुवचनस्थाने प्राकृतत्वात्सप्तम्येकवचनम् ॥१॥
जे पावकम्मेहिं धणं मणूस्सा, समाययंती अमइं गहाय । पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उर्विति ॥ २ ॥
'जे' इति ये मनुष्याः पापकर्मभिर्धनमर्जयन्ति-धनमुत्पादयन्ति, ते मनुष्या वैरानुबद्धाः, पूर्वोपार्जितद्वेषबन्धनबद्धाः, नरकं व्रजन्ति, किं कृत्वा धनमुपार्जयन्ति ? अमतिं गृहीत्वा, न मतिरमतिस्ताममति-कुमतिमङ्गीकृत्य, अथवाऽमृतमानन्दम्, आनन्दहेतुं गृहीत्वैहिकसुखहेतुकं धनं विचार्य, किं कृत्वा नरकं व्रजन्ति ? पापकर्मभिरुपार्जितं धनं प्रहाय त्यक्त्वा, कीदृशास्ते मनुष्याः ? पाशप्रवर्तिताः, पाशेषु पुत्र-कलत्र-धनप्रमुखबन्धनेषु प्रवर्तिताः पाशप्रवर्तिताः, धनं हि नरके व्रजतो जीवस्य सार्थे नायाति, एकाक्येव महारम्भमहापरिग्रहवशानरकं यातीत्यर्थः ॥२॥
'जरोवणीयस्स हु नत्थि ताणं' अत्र अट्टणमल कथा -
उज्जयिन्यां जितशत्रुनृपस्याट्टणमल्लो वर्तते, सच प्रतिवर्ष सोपारके गत्वा सिंहगिरिराज्ञः सभायां मल्लान् विजित्य जयपताका लाति । अन्यदा राज्ञैवं चिन्तितं परदेश्योऽयमट्टणमल्लो मत्सभायां जित्वा बहु दव्यं प्राप्नोति, मदीयः कोऽपि मल्लो न जीयते (जयति), नैतद्वरम्, एवं हि ममैव महत्त्वक्षतिर्जायते, इति मत्वा कञ्चिद्बलवन्तं 'मत्सीनरं दृष्ट्वा स्वमल्लं चकार,
१ कार्मुकवत् - मु०॥ २ मच्छीमार