________________
चतुरङ्गीयमध्ययनम् ३]
[७९ कानि दशाङ्गानि ? -
खित्तं वत्थु हिरण्णं च, पसवो दासपोरुसं ।
चत्तारिकामखंधाणि, तत्थ से उववज्जइ ॥१७॥ ते देवास्तत्रोत्पद्यन्ते, तत्र कुत्र ? यत्र चत्वार एते कामस्कन्धा भवन्ति, तत्र कुत्र ? यत्र क्षेत्रं सम्यग्भवति ग्रामा-ऽऽरामादिकम्, अथवा सेतु-केतूभयात्मकम् १, यत्र वास्तुगृहं सम्यग्भवति २, यत्र हिरण्यं सुवर्ण रुप्यं वा ३, यत्र पशवो घोटक-हस्त्यादयः 'दासपोरुसं' चेटक-चेटी-पत्तिप्रमुखादिकं ४, चत्वार एते स्कन्धा वर्तन्ते । काममनोज्ञशब्दादयास्तेषां हेतवः स्कन्धास्तत्पुद्गलसमूहाः, अनेनैकमङ्गमुक्तम् ॥ १७ ॥
मित्तवं नायवं होइ, उच्चागोए य वण्णवं ।
अप्पायंके महापन्ने, अभिजाए जसोबले ॥१८॥ मित्राणि विद्यन्ते यस्य स मित्रवान् १, ज्ञातिर्विद्यते यस्य स ज्ञातिमान्-स्वजनवान् २, पुनरुच्चैर्गोत्रं यस्य स उच्चैर्गोत्रः३, पुनर्वर्णवान् शरीरे सद्वर्ण-युक्तः ४, पुनरल्पातकोऽल्प आतङ्को यस्य सोऽल्पातङ्कः ५, पुनः कीदृशः ? महाप्रज्ञो महती प्रज्ञा यस्य स महाप्रज्ञोमहाबुद्धिः ६, अभिजातो विनीतः ७, पुनर्यशस्वी ८, पुनर्बली - बलवान् ९,'जसो बले' इत्युभयत्र मत्त्वर्थीय-यलोपः अङ्गनवकमिहोक्तम् ॥ १८ ॥
भुच्चा माणुस्सए भोए,अप्पडिरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहिबुज्झिया ॥१९॥ चउरंगदुल्लहंनच्चा, संजमं पडिवज्जिया।
तवसा धुयकम्मंसे, सिद्धहवइ सासए ॥२०॥त्तिबेमि ॥ तत्र स मनुष्योऽप्रतिरूपः सर्वोत्कृष्टरूपधारी सन् यथायुषं मनुष्यायुषं यावन्मनुष्यभोगान् भुक्त्वा पुनर्यथावसरे केवलां निष्कलङ्कां बोधि-सम्यक्त्वं बुद्ध्वा-प्राप्य, पुनश्चतुरङ्गी दुर्लभां ज्ञात्वा संयम प्रतिपद्य शाश्वतः सिद्धो भवति । कीदृशः स पुरुषः ? पूर्व विशुद्धसद्धर्मः पूर्व-पूर्वजन्मनि विशुद्धो-निदानरहित सद्धर्मो यस्य स विशुद्धसद्धर्मः, पुनः कीदृशः सः ? तपसा धुतकर्मांशः, तपसा दूरीकृतकर्मलेश इति सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह-हे जम्बू ! अहमिति ब्रवीमि ॥२०॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्य
लक्ष्मीवल्लभगणिविरचितायां तृतीयाध्ययनस्यार्थः सम्पूर्णः॥