SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७८] [उत्तराध्ययनसूत्रे भवति,धर्मयुक्तस्य परमुत्कृष्टंनिर्वाणं-मोक्षो जायते,सजीवन्मुक्तो भवतीत्यर्थः, तपस्तेजसा जाज्वल्यमानो भवति, क इव ? घृतसिक्तः पावक इव, घृतेन हुतोऽग्निरिव ॥१२॥ विगिंच कम्मुणो हेडं, जसं संचिणु खंतिए। .. पाढवं सरीरं हिच्चा, उट्ठे पक्कमई दिसं ॥ १३ ॥ शिष्यं प्रति गुरुर्वदति-हे साधो ! त्वं कर्मणो हेतुं मिथ्यात्वा-ऽविरति-कषाययोगादिकं 'विगिंच' विवेग्धि-विवेकं कुरु-पृथक्कुरु । पुनः क्षान्त्या क्षमया कृत्वा यशः संयमं विनयं वा सञ्चिनु-संचय, पुनरेवं कुर्वन् पार्थिवं-शरीरं हित्वोझ् दिशं मोक्षं प्रति प्रक्रामति-भवान् व्रजति-त्वं प्रयासीत्यर्थः, पृथिव्या भवं पार्थिवं-पृथ्वीविकारम् ॥१३॥ विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुक्का व दिप्पंता, मनंता अपुणच्चवं ॥१४॥ साधवो विसदृशैरत्युत्कृष्टैः शीलैः साधुव्रतैर्यक्षा-देवा उत्तरोत्तराः सौधर्मादिष्वच्युतान्तेषु तिष्ठन्तीति क्रियासम्बन्धः । कीदृशास्ते देवाः ? महाशुक्ला इव चन्द्रा-ऽऽदित्यादय इव देदीप्यमानाः, पुनस्ते किं कुर्वाणाः ? अपुनश्च्यवं मन्यमाना अतिसौख्यभाक्तयाऽपुनर्भवं मन्यमानाः ॥१४॥ अप्पिया देवकामाणं, कामरूवविउव्विणो। उड़े कप्पेसु चिटुंति, पुव्वा वाससया बहु ॥१५॥ पुनः कीदृशास्ते यक्षाः ? देवकामान् प्रति पूर्वभवाचीर्णैतैर्देवकामान्-देवसौख्यानि प्रत्यर्पिताः, पुनः कीदृशाः ? कामरूपविकुर्विणः, कामरूपं-स्वेच्छया रूपं विकुर्वन्तिविरचयन्तीत्येवंशीला: कामरूपविकुर्विणः । अथ तत्र देवलोकेषु कथं यावत्तिष्ठन्ति ? बहूनि पूर्ववर्षशतानि यावत्तिष्ठन्ति, बहुनीतिशब्देनासङ्ख्येयानि वर्षशतानि यावद्देवसुखानि भुञ्जन्ति, पूर्ववर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यज्ञापनार्थमित्थमुपन्यासः. बहुभिः पूवैर्जघन्येनैकं पल्योपमं भवति, बहुभिर्वर्षशतैः पूर्वः, बहुभिः पूर्वशतैः सागरोपमं भवति ॥१५॥ तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खये चुआ। उति माणुसं जोणिं, से दसंगेऽभिजायए ॥ १६ ॥ तत्र देवलोकेषु यथास्थानं स्थित्वा यक्षा-देवा आयुःक्षये च्युताः सन्तो मानुषीं योनिमुत्पद्यन्ते-प्राप्नुवन्ति, तत्र दशाङ्गा अभिजायन्ते, अत्र प्राकृतत्वादेकवचनम्, दशभिरङ्गैः सह वर्तन्त इति सदशाङ्गाः, अथवा स इति ते इत्यर्थः, दश अङ्गानि येषां ते दशाङ्गा इति पृथक् पदम्, एकवचनेन कश्चिन्नवाङ्गादेरपीति ज्ञानपनार्थम् ॥ १६ ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy