SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीयमध्ययनम् ३] [७७ तस्य त्वग्रहणे यस्मात् क्षुद्रप्राणिविनाशनं । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥ ७ ॥ य एतान्, वर्जयेद्दोषान् धर्मोपकरणादृते । तस्य त्वग्रहणं युक्तं, यः स्याज्जिन इव प्रभुः ॥ ८॥ जिनकल्पिकस्तु प्रथमसंहनन एव भवति, इदानीं प्रथमसंहननाभावाज्जिनकल्पिकमार्गों नानुष्ठीयते, इत्यादियुक्तिभिर्गुरुणा प्रतिबोधितोऽपि नासौ प्रतिबुद्धः, प्रत्युतामर्षात् स्वप्रावरणं त्यक्त्वैकाक्येव वने गतः, तस्योद्याने स्थितस्योत्तरा नाम भगिनी वन्दनार्थमागता। - . तं तथाविधं दृष्ट्वा तयापि चिवराणि त्यक्तानि । अन्यदा भ्रात्रा समं सा नगाँ भिक्षार्थं प्रविष्टा, आवासोपरिस्थयैकया गणिकया दृष्ट्वास्मज्जातर्लोको मा विरक्तो भवत्विति मत्वास्या उरसि शाटिका व्युत्सृष्टा, सा नेच्छति, भ्रात्रा उक्तं-एषा देवतया दत्तेति भ्रातृवचसा तया शाटिका परिधृता । अथ शिवभूतिना कोडिन्नः कोट्टवीरश्चेति शिष्यद्वयं प्रतिबोध्य दीक्षितम्, ततो बोटिकमतं मिथ्यादर्शनं प्रवृत्तम्। 'सुच्चा नेआऊयं मग्गं, बहवे परिभस्सइ' । एतत्पदद्वयोपरि सप्तनिह्नवोदाहरणानि ॥ ६ ॥ सुइं च लध्धुं सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणावि, नो एणं पडिवज्जए॥१०॥ च पुनः श्रुतिं लब्ध्वा, च पुनः श्रद्धां लब्ध्वा, वीर्यं पुनर्दुर्लभम्, चारित्रपालने बलस्फोरणं दुर्लभम्, बलस्फोरणदुर्लभत्वे हेतुमाह, यतो बहवो जना रोचमाना अपि धर्मे रुचिं कुर्वाणा अप्येतद्वीर्यं प्रति नो प्रतिपद्यन्ते वीर्यं नो अङ्गीकुर्वते, श्रेणिकादिवत् ॥१०॥ माणुसत्तंमि आयाओ, जो धम्मं सुच्च सद्दहे। तवस्सी वीरियं लर्बु, संवुडे निधुणे रयं ॥ ११ ॥ मनुष्यत्वेआगतःसन्योधर्म श्रुत्वा श्रद्धत्तेसतपस्वी वीर्यंलब्वासंवृतःसन्-निरुद्धाश्रवः सन् रजः कर्ममलं निधुनोति, निश्चयेन धुनोति-दूरीकरोति, मुक्तिं प्राप्नोतीत्यर्थः ॥११॥ चतुरङ्गीयस्य इहैव फलमाह - सोही उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठई। निव्वाणं परमं जायइ, घयसित्ति व्व पावए ॥१२॥ ऋजुभूतस्य चतुरङ्गीं प्राप्य मोक्षगमनार्थं सरलीभूतस्य शुद्धिर्भवति, कषायकालुष्यरहितः स्यात्,शुद्धस्य कषायकालुष्यरहितस्य धर्मस्तिष्ठति,क्षमादिदशविधधर्म:स्थिरो
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy