SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७६] [उत्तराध्ययनसूत्रे भ्रमन् रात्रौ मध्यान्हेऽन्त्यप्रहरे वा समायाति, कदाचिन्नायात्यपि स्वगृहे, दिवसे यावद् गृहे नायाति तावत्तस्य भार्या न भुक्त, रात्रौ यावन्नायाति तावन्न स्वपिति । अन्यदा सा प्रकामं खिन्ना श्वश्रूः प्रत्याह हे मातस्त्वत्पुत्रोऽर्धरात्रे कदाचिदायाति, कदाचिदन्त्यप्रहरे समायाति, कदाचिन्नायात्यपि, दिवसेऽपि रात्रावपि चायमकाल एव समायाति, अहं निद्रार्ता क्षुधार्ता च तिष्ठामि, तदा श्वस्रा भणितमद्य त्वया द्वारं दत्वा शयनीयम्, अहं जाग्रती स्थास्यामि तद्दिवसे रात्रौ तथैव कृतम्। स मध्यरात्रौ समायातः, द्वारमुद्घाटयेत्युक्तवान् मात्रा भणितं, यत्रास्यां वेलायां द्वाराण्युद्घाटानि भवन्ति तत्र व्रज स रोषानिर्गतः, कृष्णाचार्योपाश्रय एवोद्घाटितो दृष्टः, मध्ये प्रविष्टः, वन्दित्वा भणति मां प्रवाजयत ? आचार्यों नेच्छन्ति, तेन स्वयमेव लोचः कृतः, ततस्तस्याचायैलिङ्गं दत्तम्, आचार्यास्तमादाय ततो विहृताः, कालान्तरेण तत्रैव पुनरायाताः, राजा तद्वन्दनार्थमायातः, गुरूननुज्ञाप्य सहस्रमल्लः स्वगृहे आकारितः, तस्य स्वगृहागतस्य रत्नकम्बलं राज्ञा दत्तम्, सोऽपि गुरुसमीपे समायातः, गुरुभिस्तदलकम्बलमनापृछ्य गृहीतं ज्ञात्वा सहस्रमल्ल उपाश्रयादहिर्निर्गते सति रत्नकम्बलं खण्डशः कृत्वा यतीनां पाद-प्रोञ्छनानि कृत्वा दत्तानि, स आगतः, तत्स्वरूपं ज्ञातम्, सकषाय एव स्थितः । अन्यदा गुरुभिर्व्याख्यायां जिनकल्पिका वर्ण्यन्ते, जिनकल्पिका द्विविधाः पाणिपात्राः पतद्ग्रहधराश्च, सप्रावरणा अप्रावरणाश्चेत्यादिजिनकल्पिमार्गो वर्णितः, सहस्रमल्लेन पृष्टं किमसौ मार्गः साम्प्रतं न क्रियते ? गुरुभिरुक्तं स मार्गः साम्प्रतं व्युच्छिन्नोऽस्ति, तेनोक्तं यद्येष मार्गोऽनुष्ठीयते, तदा नास्त्यस्य व्युच्छेदः, परलोकार्थिनैष एव मार्गोऽनुष्ठेयः, सर्वथा निष्परिग्रहत्वमेव श्रेयः, सूरिभिरुक्तं धर्मोपकरणमेवेति न तु परिग्रहः तथाहि - जन्तवो बहवः सन्ति, दुर्दश्या (शा) मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु रजोहरणधारणम् ॥ १ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कचने चेष्टं, तेन पूर्वं प्रमार्जनम् ॥ २ ॥ तथा सम्पातिमाः सत्त्वा: सूक्ष्माश्च व्यापिनोऽपरे। तेषां रक्षानिमित्तं च, विज्ञेया मुखवस्त्रिका ॥ ३ ॥ भवन्ति जन्तवो यस्मा - दन्नपानेषु कुत्रचित् । तस्मात्तेषां परीक्षार्थं, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरं च - सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥ ५ ॥ शीत-वाता-ऽऽतपैर्दशै-मशकैश्चापि खेदितः ।। मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ॥६॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy